________________ 105 139.] द्वितीयोऽध्यायः। त्वाख्यया जरया सहोक्ता श्रीरिव कालकानुबद्धा संवेगानुकला भविष्यतीत्येषोऽर्थ [वि]षयो दृश्यते / तस्माच्चत्वारि / इतश्च चत्वारि स्थितिनास्तित्वे हेतु त्वाद्यप्रसिद्धितः // यदि हि धर्मस्य थितिर्ण (न) स्यात्, तस्यात्मन्यवस्थितस्य हेत्वाख्यः शक्तिप्रभावविशेषो न स्यात् / अनित्यताग्र[स्तस्य च नोत्पक्तिशक्तिरित्यतश्च क्रियां न कुर्यात् / क्रियाऽभावात्फलाभावः स्यात् / फलार्थश्चायमारम्भः। तस्मादास्तिकर्णा(ना)स्तिकपक्षं विक्षिप्य स्थितिः प्रतिगृह्यत इति सिद्धम् // ___ चत्वारीति न सिद्धयन्ति जराभावात् / भवतु स्थितिः, जरा तु सर्वका न युज्यते / कथम् ? उक्तं हि "तथात्वेन जरासिद्धिरण्य(न्य)थात्वेऽन्य एव सः। तस्मान (न्ने)कस्य भावस्य जरा नामोपपद्यते // "3 1cf. अन्ये पुनः कल्पयन्ति स्थिति जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्र। कि प्रयोजनम् ? एषा ह्येषु संगास्पदमतः श्रियमेवैनां कालकर्णीसहितां दर्शयामास तस्यामनासंगार्थमिति Akb. II. 45cd. See Jps. pp. 46-7. This refers to the Sautrantikas, whose views are given in detail by the Kosakara :-तदेतमाकाशं पाट्यत इति सौत्रान्तिकाः। न ह्यते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथाभिव्यज्यन्ते / भगवान् संस्कारप्रवाहस्य संस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह 'त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि', न तु क्षणस्य / न हि क्षणस्योत्पादादयः प्रज्ञायन्ते / ""तत्र प्रवाहस्यादिरुत्पादो निवृत्तिय॑यः स एव प्रवाहोऽनुवर्तमानः स्थितिः / तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् / “आह चात्र / जातिरादिः प्रवाहस्य व्ययच्छेदः स्थितिस्तु सः / स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता // ..."तस्मात्प्रवाह एव स्थितिः / 'प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विनापि द्रव्यान्तरकल्पनया / न वै संस्कृतस्य स्थितिरेवोच्यते। लक्षणमपि तु स्थित्यन्यथात्वम् / ""समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति घोतितं भगवता-"संस्कृतं नाम यवभूत्वा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सोऽन्यथा चान्यथा च भवति" इति किमत्र व व्यान्तरजर्जात्यादिभिः ? Akb. II. 46. ab. See LVPAR. II. pp. 227 ff., Asm. p. 19, and The Central Conceper tion of Buddhism, pp. 37-43. 3 Cf. स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशोऽनित्यता। जरा तु खलु सर्वथात्वेन न तथा / पूर्वापरविशेषात् विपरिणामाच्च / अतस्तदन्पधात्वेऽन्य एव / उक्तं हि तथात्वेन जरासिद्धिः / ' Akb. II. 46. ab.