________________ 97 138.]. द्वितीयोऽध्यायः। इति सूत्रे वचनात् / ' प्राप्तकामवशित्वात्तु सन्तः पश्चाद्विलंध्यापि व्युत्क्रान्तसमापत्ति समापद्यन्त इति // व्याख्याते समापत्ती। [138] गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः / / आगमायुक्तितश्चैव द्रव्यतस्तत्सदिष्यते / / आयुर्जीवितमित्यनर्थान्तरम् / उक्त ह्यभिधर्म-"जीवितेन्द्रियं कतरत ? धातुकमायुः" इति / तत्पुनः 'गतिप्रज्ञप्त्युपादानं' विपाकजस्वभावत्वात् / उक्त हि सूत्रे-“निर्वत्ते विपाके नारक इति संख्यां गच्छति / एवं यावन्न - संज्ञानासंज्ञायतनोपगसंख्यां गच्छति" इति / न चान्यदिन्द्रियं विपाकजं धातुक व्याप्यस्ति यज्जन्मप्रबन्धाऽविच्छेदेन वर्तमानं गतिप्रज्ञप्त्युपादानं स्यात्, अन्यत्र जीवितेन्द्रियात् / तत्पुनरस्तीति कथं गम्यते ? पागमायुक्तितश्च / आगमस्तावदयम् 1. After this the Akb. reads : यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति / प्राथमकल्पिके प्रत्येष नियमः / प्राप्तकामवशित्वात्तु सन्तो विलंध्यापि समापद्यन्ते / एवमनयोः समापत्त्योभूमितोऽपि विशेषः / चतुर्थध्यानतयाग्रभूमिकत्वात् / R. On vyutkranta-samapatti, see Ak. VIII. 19. and Aaa. p. 503. ... 3. Cf. आयुर्जीवितमाधार ऊष्मविज्ञानयोहि यः / Ak. II. 45b. X. Jnanaprasthana, 14, 19 (Indriyaskandhaka). Cf. कतमं तस्मि समये जीवितिन्द्रियं होति ? या तेसं अरूपोनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं, इदं तस्मि समये जीवितिन्द्रियं होति / Dhs. I. 19. The Theravadins hold that the fivitendriya is twofold: Rapa. jivitendriya and Arupa jivitendriya. A controversy about such division is recorded in the Kv. VIII. 10. The KvA. gives some interesting information about the theory of its being a Viprayukta-dharma:-इदानि जीवितिन्द्रियकथा नाम होति / तत्थ येसं जीवितिन्द्रियं नाम चित्तविप्पयुत्तो अरूपधम्मो, तस्मा रूपजीवितिन्द्रियं नत्थीति लद्धि, सेय्यथापि पुब्बसेलियानञ्चेव सम्मितीयानञ्च / "नत्थि रूपीनं धम्मानं आयूति पञ्हे उपादिन्नरूपानम्पि तिणकट्ठादीनम्पि सन्तानवसेन पवत्तिमेव आयु, ठिति यपना यापना इरियना वत्तना पालनाति इच्छति, तस्मा पटिक्खिपति / ... अस्थि अरूपजीवितिन्द्रियं ति पञ्हे अरूपधम्मानं चित्तविप्पयुत्तं जीवितिन्द्रियसन्तानं नाम अत्थीति इच्छति, तस्मा पटिजानाति""| KvA. VIII 10.