________________ अभिधर्मदीपे [138. "आयुरुष्माथ विज्ञानं यदा कायं जहत्यमी। अपविद्धस्तदा शेते यथा काष्ठमचेतनम // "1 सर्व हि जीवितेन्द्रियं कामधाताववश्यं कायेन्द्रियोष्मसहचरिष्णु / तत्त्ववश्यं विज्ञानसहवति नापि चक्षरादीन्द्रियसहवति / रूपधातौ तु सर्व कायादिपञ्चेन्द्रियस' हवति / न त्ववश्यं चित्तसहचरिष्ण / प्रारूप्यधातौ तु सर्वं विज्ञानसहवर्ति, अन्यत्र निरोधसमापत्तेः / जीवितेन्द्रियं गतिप्रज्ञप्त्युपादानमस्तीति द्रव्यम् / अन्यथा हि कुशलनिवृत्ते चेतसि निर्मलो (ले) वाऽधोभौमे तद्गतिप्रज्ञप्त्युपादानविपाकजं कि कल्प्येत यत्सद्भावादसौ ततो न प्रच्युतः स्यात ? न च शक्यं प्रतिज्ञातुमनास्रवाना(णा)[म ]धोभूमिविज्ञानबीजं तद्गतिसंज्ञप्त्युपादानं कल्पयितुम्, अनास्रवस्य चित्तस्य समुच्छेदाय प्रवृत्तत्वात् / न चान्य विज्ञानं तद्भौमं शक्यं कल्पयितुं मनोविज्ञानधातुव्यतिरिक्तस्यानाकारमालम्बनस्य विज्ञानस्याप्रसिद्धत्वात् / मनोधातुरिति चेत् / न। मनोविज्ञानधातोरेवाव स्थान्तरे तन्नामप्रज्ञप्तेः / युक्तिरपि-चक्षुरादिवत्त. दाधिपत्यविशेषात् / "समाधिबलेन कर्मजं जीवितावेधं निर्वायुः संस्काराधिष्ठानजम्, आयुर्न विपाकः” इति कोशकारः। तत्र किमुतरमिति ? न तत्रावश्यमुत्तरं 1. Quoted in Akb. II. 45 ab. . Cf. आयु उस्मा च विचाणं यदा कायें जहन्तिमं / / __अपविद्धो तदा सेति परभत्तं अचेतनं // S. III. P 143. Also cf. यदा खो आवुसो इमें कायं तयो धम्मा जहन्ति आयु उस्मा च विआणं, अथायं कायो उज्झितो अवक्खितो सेति यथा कठें अचेतनं ति / M. sutta + 3. 2. त्रैधातुकजीवनलक्षणमिति जीवितेन्द्रियम् / Aam. p. 4. 3. This is a rejoinder to the Kosakara's view :-एवं हयुक्तमभिधर्मे "जीवितेन्द्रियं कतमत् / वैधातुकमायुरिति / " एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति / ... य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः / 'नहि नास्तीति बमो न तु द्रव्यान्तरम / कि तर्हि / वैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः / यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत् सोऽवतिष्ठते तदायुरित्युच्यते / सस्यानां पाककालावधवत् क्षिप्तेषु स्थितिकालावधवच्च / एवन्तु वर्णयन्ति व्रव्यान्तरमेवायु स्तीति / Akb. II 45 ab. Cf. जोवितेन्द्रियं कतमत् / निकायसभागे पूर्वकर्माविद्धे स्थितिकालनियमे आयुरिति प्रज्ञप्तिः / Asm. p. 11. 4. While discussing a topic “कतीन्द्रियाणि विपाकः कति न विपाकः ?", the Kosakara deals with a sub-topic :--अथ यदहन भिक्षुरायुः संस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः ? and gives the following views :-...