________________ 96 अभिधर्मदीपे [137. 'अत्र स्थविर उदायी स्थविरशारि[पु]त्रमिद मवोचत्-"मा त्वमायुज्मन्नेवं वोचः / " स हि मन्यते स्म भावाग्रीकीयं समापत्तिदिव्यश्च मनोमयः कायश्चतुर्थध्यानभूमिक उक्तो भगवता तत्कथमेतदुपपत्स्यते / तदेतद् भदन्तोदायिना परिहानि(णि)मजानानेनाभिधर्मसंमूढेन प्रत्युक्तः स भगवता 'परमाभिधा मकेणावसादनार्थमभिहितः- त्वमपि मोहपुरुष शारिपुत्रेण भिक्षुणा साधु गम्भोरेऽभिधर्म संलपितुं मन्यसे?" [इति]' निकायान्तरीयाश्च तुर्थध्यानभूमिकामपि निरोधसमापत्तिमिच्छन्ति / तेषां विना परिहान्या (ण्या) सिद्धत्येतत्सूत्र[म्] / ये (ए)तदेव तु न सिद्धयति-चतुर्थध्यानभूमिकाप्यसावस्तोति / कथम् ? "नवानुपूर्वसमापत्तयः": य आर्या निरोधसमापत्तिमुत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा रूपधातावुपपद्यन्ते, तैः परिहीणपूर्वैः पूर्वाभ्यासवशाद्रूपधातो निरोधसमापत्तिरुत्पाद्येत / 'किमतोऽप्यस्ति परिहाणिरिति ? निर्वाणसदृशीयं समापत्तिः, कथमतः परिहाणिरित्यसंभावयन् पृच्छति / उदायिसूत्रमिति ।"""इहायुष्मन्तो भिक्षुः शीलसम्पन्नश्च भवति समाधिसम्पन्नश्च प्रज्ञासम्पन्नश्च / सोऽभीषणं संज्ञार्वेदितनिरोधं समापद्यते व्युत्तिष्ठते च। अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति / स न हैव दृष्ट एव धर्मे प्रतिपत्यैवाज्ञामारागयति / नापि (ditto).."अस्ति चैतत् स्यानमिति यथाभूतं प्रजानाति" इति / Saks. p. 164. 1-1. Cf. एवं वुत्ते आयस्मा उदायो आयस्मन्तं सारिपुत्तं एतदवोच: 'अट्ठानं खो एतं आवुसो सारिपुत्त, अनवकासो यं सो भिक्खु अतिक्कम्मेव कवळिकाराहारभक्खानं देवानं सहव्यतं अञ्जतरं मनोमयं कायं उपपन्नो सञआवेदयितनिरोधं समापज्जेय्यपि वुट्ठहेय्यपि नत्थेतं ठानं ति।' 'अथ खो भगवा आयस्मन्तं उदायि आमन्तेसि / 'क पन त्वं उदायि मनोमयं कायं पच्चेसी'ति / 'ये ते भन्ते देवा अरूपिनो सामया' ति। 'किन्नु खौ तरह उदायि चालस्स अव्यत्तस्स भणितेन त्वं पिनाम भणितब्ब मञसी'सि | Ang. v. p. 166. 2. This whole passage (upto वचनात्) is identical with Akb. II 44d. 3. तस्मादस्त्यतः परिहाणिरिति गम्यते। युज्यत एवैतद् वैभाषिकाणाम् / सौत्रान्तिकानान्तु कथमेतत् / आर्य एव हि निरोधसमापत्तिलाभी / न चार्यमार्गादस्ति परिहाणिरिति सौत्रान्तिकसिद्धान्तः। तस्यार्यस्य कथमुपरिभूमिकादार्यमार्गात् परिहाणिरितीष्यते / तेषामप्येतत् सूत्रं न विरुध्यते / कथम् / यो हि कश्चित् भवाग्रलाभी नियाममवक्रामति सोऽनागामी सन्निरोधसमापत्तिमुत्पादयेत् / स भवाग्रान्निरोधसमापत्तेश्च परिहीयेत / न तु मार्गात् / ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिदनुत्पादितत्वात् / स परिहीणो भूत्वा ध्यानमुत्पाद्य रूपधातावुपपद्येत / तस्मादस्त्यतः परिहाणिर्न चार्यमार्गात् परिहाणिरिति न स्वसिद्धान्तविरोधः। Saks. p. 165. 4. नवानुपूर्वसमातत्तय इति / चत्वारि ध्यानानि चत्वार आरूप्य निरोघसमापत्तिश्च / Ibid. p. 166.