SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 136.] . द्वितीयोऽध्यायः। आप्या प्रयोगतः // ' यत्नेन तामुत्पादयतीति / / [136] निरोधाख्या तु विज्ञेया विजिहीर्भवाग्रजा // ' निरोधसमापत्ति रपि चित्तचैत्तानां धर्माणां कञ्चित्कालमुत्पत्तिसन्निरोधिनी। सा पुनरियं विहारसंज्ञापूर्वकेन (ण) मनसिकारेण निर्वाणसदृशं सुखममुभवितुकामैर्योगिभिः संमुखीक्रियते / 'भवाग्रजा' चेयं समापत्तिः / . शुभाऽयंस्य प्रयोगाप्या द्विवेद्याऽनियता मता // द्वयोः कालयोर्वेद्या 'द्विवेद्या'। उपपद्यवेद"नीया चापरपर्यायवेदनीया च / अनियतवेदनीया चेयम् / यो ह्यतामुत्पाद्य परिणि (निर्वाति स नास्या विपाकं प्रतिसंवेदयते / तस्या हिं भवाने चतुस्कन्धको विपाको विपच्यते / आर्यश्चैतामुत्पादयितुं शक्नोति नानार्यः। उच्छेदभीरुत्वाच्छाश्वतदृष्टिप्रहाना(णा) दार्यमार्गवलोत्पादनाच्च / आर्यस्यापि चेयं प्रयोगलभ्या न वैराग्यलभ्येति / .. .. अत्र पुनः• कोशकारः प्रतिजानीते–“सचित्तिकेयं समापत्तिः” इति / - 1. Cf. निरोधाख्या तथैवेयं विहारार्थ भवाग्रजा। Ak. II. 43ab. Also cf. निरोधसमापत्तिः कतमा ? आकिञ्चन्यायतनवीतरागस्य भवाग्रादुच्चलितस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेणास्थावराणां चित्तचैतसिकानां. धर्माणां निरोधे निरोध. समापत्तिरिति प्रज्ञप्तिः। Asm. p. 10. 2. Cf. शुभा द्विवेद्याऽनियता चार्यस्याप्या प्रयोगतः। Ak. II. 43 cd. 3. The Akb. (II. 43-44) deals with this topic in great detail. In verse 44, it discusses a controversial point, viz., fi raatsfa srutforkit ? and gives the views of the Bahirdesika and Kasmira Vaibhashikas on this point. The Adv. is silent on this topic. The Adv. might have dealt with this topic in folio no. 48, which is lost. 4. The whole controversy centres around a question : कथमिदानीं बहुकालनिरुद्धाच्चित्तात् पुनरपि चित्तं जायते / Akb. II. 44. The Kosakara gives following views :-(i) galacgrcafeacara gozat वैभाषिकः समनन्तरप्रत्ययत्वम् / (ii) अपरे पुनराहुः कथं तावदारूप्योपपन्नानां चिरनिरुद्धेऽपि रूपे पुनरपि रूपं जायते। चित्तादेव हि तज्जायते न रूपात् / एवं चित्तमप्यस्मादेव सेन्द्रियात्कायाज्जायते न चित्तात् / अन्योन्यबीजकं ह्येतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः / (iii) भवन्तवसुमित्रस्त्वाह परिपृच्छायां-'यस्याचित्तिका समापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरिति” /
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy