________________ अभिधर्मदीपे [135 का पुनरसावसंज्ञिसमापत्तिरिति ? तदपदिश्यते[135] शुभाऽसंज्ञिसमापत्तिानेऽन्त्ये चित्तरोधिनी।' प्रासंज्ञिकमव्याकृतम् / विपाकफलत्वात् / इयं तु शुभाः (भा)। सा पुनरियं 'ध्यानेऽन्त्ये' चतुर्थध्यानसंगहोतेत्यर्थः / 'चित्तरोधिनी', यथैव तत्फलं चित्तसन्निरोधि तथैवेयमपि चित्तसंरोधिनी। चित्तग्रहणाच्च चैत्तानामनुक्तसिद्धिरादित्यास्तगमने किरणास्तगमनवत् / किमर्थं पुण (न) रेतां योगिणः (नः) समापद्यन्ते ? निःसृतीच्छाप्रवृत्तित्वात् ते हि निस्सरणसंज्ञापूर्वकेण मनस्कारेण तां समा पद्यन्ते मोक्षका- . क्षया / सा पुनरियम् नार्यस्य आर्या हि तामपायस्थानमिव मन्यन्ते / पृथग्जनास्तु केचिन्मोक्षस्थानमिति। किं पुण (न)रियमुपपत्त्या वा वैराग्येण , वा लभ्यते ? नेत्याह। किं तर्हि ? 1. Cf. तथाऽसंज्ञिसमापत्तिानेन्त्ये निःसृतीच्छया। शुभोपपद्यवेद्य व नार्यस्यकाध्विकाप्तये // Ak. II. 42. Also cf. असंजिसमापत्तिः कतमा ? शुभकृत्स्नवीतरांगस्य निःसरणसंज्ञापूर्वकेण मनसिकारणास्थावराणां चित्तचैतसिकानां धर्माणां निरोधे असंज्ञिसमापत्तिरिति प्रज्ञप्तिः / Asm. p. 10. For various controversies on this Samapatti, see Ku. XV. 7-10. The KvA. gives some very valuable information about this Sama patti and shows the distinction between this and the next one, viz., the Nirodhasamapatti : इदानि सजावेदयितकथा नाम होति / तत्थ सजावेदयितनिरोधसमापत्ति नाम न कोचि धम्मो, चतुन्नं पन खन्धानं निरोधो, इति सा नेव लोकिया, न लोकुत्तरा।" इदानि असञसतपिकाकथा नाम होनि / तत्थ सञ्जाविरागवसेन पवत्तभावतो असञसमापत्ति पि निरोधसमापत्ति पि सञआवेदयितनिरोधसमापत्ति नाम / इति द्वे सञ्जावेदयितनिरोधसमापत्तियो लोकिया च लोकुत्तरा च। तत्थ लोकिया पुथुज्जनस्सेव असञसत्तूपिका होति लोकुत्तरा अरियानं / सा च नासच पत्तूपिका / इमं पन विभागं अकत्वा . अविसेसेनेव सञ्चावेदयितनिरोधसमापत्ति असञ्जसत्तूपिकात येसं लद्धि, सेय्यथापि हेतुवादानं / KA.XV.7and 10.