________________ 134.]. द्वितीयोऽध्यायः / अथ किमिदमासंज्ञिकं नाम ? तदपदिश्यते / . प्रासंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंजिषु / ' ___असंज्ञिसत्त्वेषु देवेषुपपन्नानां यच्चित्तोपच्छे [ II. A, 8. Fol. 47b.] 1दिधर्मान्तरं विप्रयुक्तं विपाकजमुत्पद्यते तदासंज्ञिकं नाम / येन तत्रोपपन्नानां चित्तमनागत्वे (ते)ऽध्वनि कालान्तरं सन्निरुध्यते, नोत्पत्तुं लभते / तत्पुनरेकान्तेन विपाकजस्वभावम् : कस्य विपाकः ? असंज्ञिसमापत्तेः पूरकस्य कर्मणः। केषु पु[नस्तत् ] ? देवनिकायेषु भवति / तदाह--"असंज्ञिषु / असंज्ञिसत्त्वा' नाम देवा बृहत्फलदेवनिकायसंगृहीता ध्यानान्तरिकावत् / "3 किं पुनस्ते नैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युत्पत्तिकाले च्युतिकाले च। "प्रकृष्टमपि कालं [स्थित्वा सह] संज्ञोत्पादात्तेषां सत्त्वानां तस्मात् स्थानाच्च्युतिर्भवति" इति सूत्रपाठः / ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते, नान्यत्र / तदुप पन्नानामवश्यं कामावचराऽ परपर्यायवेदनीयकर्मसद्भावात् / यथोत्तरकौरवानां (णां) देवोपपत्तिवेदनीयं कर्मेति / / This view of Kosakara is identical with the Yogachara view :निकायसभागः कतमः ? तेषां तेषां सत्त्वानां तस्मिस्तस्मिन् सत्त्वनिकाये आत्मभावसदृशतायां निकायसभाग इति प्रज्ञप्तिः / Asm. p. 11. 1. Cf. आसंज्ञिकमसंजिषु / . . निरोधश्चित्तचत्तानां विपाकस्ते बृहत्फलाः // Ak. 41. bed. See Tub. 16. 2. Cf. असंज्ञिसत्त्वेषु देवेषूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकं नाम द्रव्यं येन चित्तचैत्ता अनागतेऽध्वनि कालान्तरं सन्निरुध्यन्ते नोत्पत्तुं लभन्ते / नदीतोयसन्निरोधवत् / तत्पुनरेकान्तेन विपाकः / कस्य विपाकः / असंज्ञिसमापत्तेः / कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः ? ते बृहत्फलाः। बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् / किं पुनस्तेनैव...ditto...नान्यत्र / पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथवीं पतन्ति / येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयं भवति / यथोत्तरकौरवाणां देवोपपत्तिवेदनीयम् / Akb. II. 41 cd. Also cf. 'असञीसु निब्बत्तन्ति / चित्तमस्स चुतिचित्तनिरोधेन इधेव निवत्तति; ' रूपक्खन्धमत्तमेव तत्थ पातुभवति / ते तत्थ यथा नाम जियावेगक्खित्तो सरो यत्तको जियावेगो तत्तकमेव आकासे गच्छति, एवमेव झानवेगक्खित्ता उपज्जित्त्वा यत्तको झानवेगो तत्तकमेव कालं तिद्वन्ति / झानवेगे पन परिहणे तत्थ रूपक्खन्धो अन्तरषायति / इध पटिसन्धिसञ्जा उप्पज्जति / Digha A. I. 2.. 30. 3. Vibhasha, 194.8. 4. Cf. सन्ति भिक्खवे, असञ्जसत्ता नाम देवा। सञ्छुप्पादा च पन ते देवा तम्हा काया चवित्वा इत्थत्तं आगच्छन्ति / Digha. XXIV. 2.20. Also cf. K.III. 11.