________________ 90 अभिधर्मदीपे [134. 'स्याच्च्यवेतोपप' घेत न च स्व[स] भागतां विजह्यात्, न [च] प्रतिलभेतेति ? चतुष्कोटिकः। प्रथमा कौटि:-यतश्च्यवते तत्रवोर [प]द्यमानः / द्वितीया-नियाममवक्रामन्, स हि पृथग्जनसभागतां विजहात्यार्यसभागतां प्रतिलभते। तृतीया-गतिसंचारात् / चतुर्थी-एतानाकारान् स्थापयित्वा / ' अथ पृथग्जण (न) त्वस्यास्याश्च कः प्रतिविशेषः ? पथग्जनसभागता खलूक्तरूपा। पृथग्जनत्वं तु सर्वानर्थकरभूतमिति सुमहांस्तद्विशेषः / / आप्तवचनेनापि तदन्यत्वसिद्धिः / उक्तं हि भगवता-“स चेदित्थत्वमागच्छति मनुष्यानां (णां) सभागतां प्रतिलभते” इति / न चैवं पथग्जनत्वं प्रतिलभ्यते वा त्यज्यते वा। . "सिद्धा सभागता। कोशकारः पुनस्तां वैशेषिकपरिकल्पितजातिपदार्थेण (न) समीकुर्वन् व्यक्तं पायसवायसयोर्वर्णसावयं पश्यतीति // 6. .. 1-1 This passage is identical with Akb. II. 41 a. 2. सत्त्वसभागतां in Akb. ibid.-'सत्त्वसभागताम्' इति / सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा / सत्त्वग्रहणं हि धर्मविशेषणार्थम् / सत्त्वसभागता ह्यत्र चतुष्कोटिके विवक्षिता न धर्मसभागतेति / Saks. p. 157. 3. Cf. पृथग्जनत्वम् "पृथग्जनत्वं कतमत् / आर्यधर्माणामलाभः". इति शास्त्रपाठः / अलाभश्च नामाप्राप्तिः।""दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे / "एवं तु साधु यथा सौत्रान्तिकानाम्-'अनुत्पन्नार्यसन्ततिः पृथग्जनत्वम्" इति / Akb. II. 40 c. . Also cf. पृथग्जनत्वं कतमत् / आर्यधर्माणामप्रतिलाभे पृथग्जनत्वमिति प्रज्ञप्तिः / Asm. p. 11. 4. This seems to be a rejoinder to the Kosakara: यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन / नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्यते / नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात्, न चैनां प्रज्ञया परिच्छिनत्ति / प्रतिपद्यते च सत्त्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः। अपि चासत्त्वसभागतापि कि नेष्यते / ... Akb. 11. 4la. 4. V. infra, Adv. karika 204 ed. For other references, see LVPAk. II. p. 198. n. 1. 6. Cf. वैशेषिकाश्चैवं द्योतिता भवन्ति / तेषामपि ह्येष सिद्धान्तः / सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति / अयं तु तेषां विशेषः / स एकोऽप्यनेकस्मिन् वर्तते / यदि द्योतिता यदि न द्योतिता। अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः / उक्तं हि भगवता "स चेदित्थत्वमागच्छति मनुष्याणां सभागताम्" इति / उक्तमेतन्न तूक्तं द्रव्यान्तरमिति / का तर्हि सा। त एव हि तथाभूताः संस्कारा येषु मनुष्याविज्ञप्तिः शाल्याविषु सभागतावत् / तत्त्वतन्न वर्णयन्ति / Akb. II. 41 a. .