________________ 134.] द्वितीयोऽध्यायः। सभांगता वक्तव्या। केयं सभागता नाम ? नहीह प्रवचने तीर्थ्यपरिकल्पितसामान्यविशेषपदार्थगन्धोऽप्यस्ति। तत्केयं तदभ्यासगतेति ? तदिदं प्रतार्य (य)ते। [ 134 ] एकार्थरुचिहेतुर्यः सत्त्वाना स सभागता।' सभागता नाम द्रव्यम् / सत्त्वानामेकार्थरुचिः सादृश्यहेतुभूतम् / निकायसभाग इत्यस्य शास्त्रसंज्ञा। सा पुनरभिन्ना भिन्ना च / अभिन्ना सर्वसत्वानां सत्त्वसभागता। सा प्रतिसत्त्वं सर्वेष्वात्मस्नेहाहाररतिसाम्यात् / भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रोपुरुषोपासकभिक्षुशैक्षाशैक्षादीनामेकार्थरुचित्वभेदप्रतिनियमहेतुः। तस्यां खल्वसत्यां सर्वार्याणा(ना)र्यलोकव्यवहारसंकरदोषः प्रसज्येत / तस्यां तु सत्यामेष दोषो न भवतीत्यस्ति सभागता नाम धर्मः, 'एकार्थरुचिहेतुः' इति / ' प्रत्युत्सवो बतायं प्राप्तीनां वर्तते / केवलं तु अप्रतिघातिन्यो यतोऽवकाशमाकाशे लभन्ते / इतरथा ह्याकाशेऽप्यवकाशो न स्यात् द्वितीयस्य प्राणिनः | Akb. II. 40 d. For the. Viprayuktatva of Prapti, see an allied controversy :"न वतब्बं पत्ति असङ्घता ति" ? आमन्ता। पत्ति रूपं वेदना सा सङ्घारा विाणं ति ? न हेवं वत्तब्बे। तेन हि पत्ति असङ्खता ति / Kv. XIX. 4. .. इदानि पत्तिकथा नाम होति / तत्थ यं यं पटिलब्भति तस्स तस्स पटिलाभो पत्ति नाम / सा च असङ्खता ति येसं लद्धि, सेय्यथा पि पुब्बसेलियान व / "न हि पत्ति नाम कोचि धम्मो अस्थि"KA.XIX. 4. 1. Cf. सभागता सत्त्वसाम्यम् / Ak. II. 41 a. 2. Cf. सभागता नाम द्रव्यम् / सत्त्वानां सादृश्यं निकायसभाग इत्यस्याः शास्त्रे संज्ञा। सा पुनरभिन्ना भिन्ना च / अभिन्ना सर्वसत्त्वानां सत्त्वसभागता / प्रतिसत्त्वं सर्वेषु भावात् / भिन्ना पुनस्तेषामेव सत्त्वानां धातु 'अशैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता / पुनः स्कन्धायतनधातुतः यवि सत्त्वसभागता द्रव्यमविशिष्टं न स्यात्, अन्योन्यविशेषभिन्नेषु सत्त्वेषु 'सत्त्वसत्त्व' इत्यभेदेन बुद्धिर्न स्यात् प्रज्ञप्तिश्च / एवं स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्याः / * Akb. II. 41a. 3. 'निकायसभाग इत्यस्याः शास्त्रे संज्ञा' इति ज्ञानप्रस्थानादिके शास्त्रे निकायसभाग इत्यनया संज्ञयायं चित्तविप्रयुक्तो निदिश्यते / Sakv. p. 157. 4. 'सा.पुनरभिन्ना भिन्ना च' इति / "नहि सा यथा वैशेषिकाणामेका नित्या चेति / Sakv. p. 157. 5. Compare with Samghabhadra's definition as given by Yasomitra : शरीरेन्द्रियसंस्थानचेष्टाहारादिसाभाग्यकारणम्, अन्योन्याभिरभिसम्बन्धनिमित्तं च सभागतेत्याचार्यसंघभद्रःSaks. p. 159.