________________ अभिधर्मदीपे [136. "समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते / येन कालान्तरमन्यस्य चित्तस्याप्रवृत्तिमात्रं भवति। तद्विरुद्धाश्रयापादनात् साऽसौ समापत्तिरिति प्रज्ञाप्यते / / (iv) भदन्त घोषक आह-."तदिदं नोपपद्यते / सति हि विज्ञाने त्रयाणां सन्निपातः स्पर्शः / स्पर्शप्रत्यया च वेदना संज्ञा चेतनेत्युक्तं भगवता। अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् / अथापि स्यात् / यथा वेदनाप्रत्यया तृष्णेत्युक्तम् / सत्यामपि तु वेदनायामहतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्श वेदनादयो न स्युरिति / तस्याविशेषत्वात् / अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं न तु वेदनोत्पत्ती स्पर्शो विशेषित इत्यसमानमेतत् ।'"तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः। Akb. II. 44. This view of Ghoshaka (the Vaibhashika) is encountered by Kosakara:-कथमचित्तिकायाः समापत्तित्वम्। महाभूतसमतापादनात् / समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः / Akb. II. 44 cd. 'कमिदानी बहुकालनिरुद्धात्' इति विस्तरः। बहुकालनिरुद्धग्रहणं समनन्तरनिरा. सार्थम् / समनन्तरनिरुद्धादिदानी कथं भवति / यदि समनन्तरनिरुद्धमस्तीत्यभ्युपगतम्, बहुकालनिरुद्ध मप्यस्तीति किं नाभ्युपगम्यते इति वैभाषिकाः / न समनन्तरनिरुद्धस्यास्तित्वं ब्रूमः, अपि तु वर्तमानं चित्तमात्मनोऽन्यचित्तहेतुभावं व्यवस्थाप्य निरुध्यते, अन्यच्चोत्पद्यते तुलादण्डनामोन्नामवत् / तच्च निरुद्ध मपरं च चित्तमुत्पन्नं भवतीत्यनन्तरनिरुद्धाच्चित्ताचित्तान्तरमुत्पद्यत इत्युच्यते / वर्तमानवदिति कृत्वा / . 'अपरे पुनराहः' इति सौत्रान्तिकाः। ..."संज्ञावेदनयोरप्यत्र निरोधो न स्यादिति' भरवन्तवसुमित्रस्यैतन्मतम्। सचित्तकत्वेऽपि तस्या निरोधसमापतेः संज्ञावेदनयोस्तत्र निरोध इति / तस्माद्भदन्तघोषक एव प्रसंगं करोति"| Saks. p. 167. Yasomitra gives three viewpoints regarding this controversy :(i) तत्राचित्तकान्येव निरोधासंजिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः। (ii) अपरिस्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः। (iii) आलयविज्ञानसचित्तकानीति योगाचाराः / इति सिद्धान्तभेदः / Ibid. 1. Cf. किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः। द्रव्यत इत्याह / चित्तोत्पत्तिप्रतिबन्धनात् / समापत्तिचित्त मेव हि तच्चित्तान्तरविरुद्ध मुत्पद्यते येन कालान्तरं चित्तस्याप्रवृत्तिमात्रं भवति। तद्विरुद्धाधयापादनात् / याऽसो समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात् भवति व्युत्थितस्येति संस्कृताऽसो समापत्तिः प्रज्ञप्यते / अथवा आश्रयस्यैव तथा समापादनं समापत्तिः। एवमासंज्ञिकमपि द्रष्टव्यम् / चित्तमेवासी तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति / Akb. II. 44 cd. ___Also cf. समापत्तिद्वयमसंज्ञिसमापत्तिनिरोधसमापत्तिश्च / तत्र'"मनोविज्ञानस्य तत्सं.. प्रयुक्तानां च चैत्तानां यो निरोधः सोऽत्रासंज्ञिसमापत्तिरित्युच्यते / निरुध्यते अनेनेति निरोधः / स पुनः ससंप्रयोगस्य मनोविज्ञानस्य समुदाचारनिरोधः। आश्रयस्यावस्थाविशेषः। स च