________________ 128.] . द्वितीयोऽध्यायः। इदं वक्तव्यम् / संप्रयुक्ताः संस्काराः कस्मादुच्यन्ते ? तदारम्यते / [126] संप्रयुक्तः संस्कारः समता यस्य पञ्चधा / विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसो / ' पञ्चभिः समताभिः संप्रयुक्ताः संप्रयुक्ताः। ताः पुनराश्रयालम्बनाकारकालद्रव्यसमताख्याः। “यथैव ह्य कं चित्तमेवं चैत्ता अप्येकैकाः" इति विस्तरः / यस्य पुण (न)रेताः समता न विद्यन्ते स विप्रयुक्त इति // ___चोदकः - कश्चिद्रूपं तहि विप्रयुक्तं३ प्राप्नोति, असंस्कृतं चेति ? संप्रत्युच्यते। [127] विशिष्टाणा (ना) मसद्भावात्प्रसंगो नास्ति रूपिणाम् / संस्कारग्रहणाच्चैव खादीनां ण(न) प्रसज्यते // विशिष्टेन खलु निरोगेण (नियोगेन) रूपिषु संज्ञा सन्निविशन्त इति तेष्वप्रसंगः / संस्कारग्रहणांच्च खादिषु विप्रयुक्तसंज्ञा न प्रवर्तत इति सिद्धम् / / के पुनस्ते विप्रयूक्ताः संस्काराः ? कियन्तो वेति ? नहि वयमेतेषां स्वभावमुपलभामहे / नापि कृत्यम् / नचैते धर्मा लोके प्रसिद्धा नापि बुद्धवचने / न वेदादिषु शास्त्रेष्विति / तदत्रोपव्याहीयते - [128] प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश / 4. प्राप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते // / 1. Cf. चितं मनोऽथ विज्ञानमेकार्थं चित्तचेतसाः / साश्रयालम्बनाकाराः संप्रयुक्ताश्च पञ्चधा // Ak. II. 34. 2. Cf. 'पञ्चभिः समताप्रकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः / केयं समता / यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति / Akb. II 34 d. 3. चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थम् / चित्तमिव चित्तेन च विप्रयुक्ता इत्यर्थः। किं च तेषां समानजातीयत्वम् / यदरूपिणोऽमी भवन्ति / रूपित्वादेव हि विप्रयुक्तत्वेऽपि रूपं न विप्रयुक्तत्वे नाम लभते / यद्वामीषां नामरूपमिति नामत्त्वम् / तत्तेषां चित्तेन समानजातीयत्वम् / चैत्ता अपि चित्तेन तुल्यजातीयाः। ते तु चित्तेन सहालम्बने संप्रयुक्ताः / तद्विशेषणार्थं विप्रयुक्तग्रहणम् / असंस्कृतमपि तत्समानजातीयमनालम्बनत्वेनेति तत्परिहारार्थ संस्कारग्रहणम् / Sakv. p. 142. 4. The thirteen Viprayukta samskaras are : प्राप्तिः , अप्राप्तिः, सभागता, आसंज्ञिकम्, निरोधसमापत्तिः जीवितेन्द्रियम्, जातिः, जरा, स्थितिः, अनित्यता, नामकायः, पदकायः, व्यञ्जनकायः /