________________ अभिधर्मदीपे [ 129. यत्तावत् स्वभावक्रियाभावादिति। तदत्रोभयमभिधायिष्यते / यदपि बुद्धवचने न पठ्यन्त इति / तत्राप्याप्तवचनं सार्वज्ञं व्याहरिष्यते / यत्त लोके न वेदादिषु पठ्यन्त इति तच्चोद्यम्। ये खलु सर्वज्ञविषया धर्माः प्रतिसंविल्लाभिनां बुद्धिवत्तिविषयमायान्त्यार्यमैत्रेयस्थविरवसुमित्र:चार्याश्वघोषप्रमुखाणां (नां) च बोधिसत्त्वानां बुद्धिप्रसादविधायिन'स्तेजोल्पानां स्तनन्धयबुद्वीनामभिधर्मपरोक्षमतिवृत्तीनां च कथं सान्धकारेषु मनस्सु गोचरतामायान्तीति / / तत्र तावत् [ 129ab.] प्राप्तिः समन्वितिर्लब्धि'धर्मवत्ता व्यवस्थितिः / समागता। . .. Cf. विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता। आसंज्ञिकसमापत्ती जीवितं लक्षणान्यपि // नामकायावयश्चेति / Ak. II. 35 and 36 a. Also cf. कतमे चित्तविप्रयुक्ताः संस्काराः / प्राप्तिः जातिः स्थितिः जरा अनित्यता असंज्ञिसमापत्तिः आसंज्ञिकायतनं विविधा देशप्राप्तिः वस्तुप्राप्तिः नामकायः पदकायः व्यञ्जनकायः पृथग्जनत्वम् इत्येवं विविधा धर्माश्चित्तविप्रयुक्ताः संस्काराः / Aam. p. 61. चित्तविप्रयुक्ताः संस्काराः कतमे। प्राप्तिरसंज्ञिसमापनिनिरोधसमापत्तिरासंज्ञिक जीवितेन्द्रियं निकायसभागता जाति रा िथतिरनित्यता नामकायाः पदकायाः व्यञ्जनकायाः पृथग्जनत्वं प्रवृत्तिः प्रतिनियमो योगः जवोऽनुक्रमः कालो देशः संख्या सामग्री च / Asm. p 10. For the different lists of the Chitta-viprayukta-dharmas, see (1) W. M, Mc Govern : A Manual of Buddhist Philosophy, vol. I pp. ___161-162, (2) Th. Stcherbatsky : The Central Conceptton of Buddhism, pp. 105 106. (3) LVPAR. II. p. 178. and (4) N. Aiyaswami Sastri : Alambanapariksha, (Appendix) p. 114. 1. Cf. प्राप्तिाभः समन्वयः / / प्राप्त्यप्राप्ती स्वसन्तानपतितानां निरोधयोः // .."प्राप्ति मास्ति किञ्चिद्भावान्तरमिति कुत एतत् ? आह सूत्रात् / सूत्रे ह्यक्तं"स एषां दशानामशैक्षाणां धर्माणामुत्पादात् प्रतिलम्भात् समन्वागमादार्यों भवति पञ्चाङ्गविप्रहीणः" इति विस्तरः / . "तस्माद्वीजमेवात्रानपोद्धृतमनुपहतपरिपृष्ठं च वशित्वकाले समन्वागमाख्यां लभते नान्यत् द्रव्यम् / "एवमयं समन्वागमः सर्वथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः / तस्य च प्रतिषेधोऽसमन्वागम इति / द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति / किं कारणम् ? एष हि नः सिद्धान्त इति / Ab. II. 36 bed. Also cf. प्राप्तिः कतमा। कुशलाकुशलानां धर्माणामाचयापचये प्राप्तिः प्रतिलम्भः समन्वागम इति प्रज्ञप्तिः / Asm. p. 10.