________________ अभिधर्मदीपे [ 124 क्रोधाद्यैस्तूपक्लेशरधिकं भवति / स च क्रोधादिरुपक्लेशोऽधिकः / क्लेशंश्च संप्रयुक्तं रागप्रतिघमानविचिकित्साभिश्च युक्तं चित्तं तेन च क्लेशाधिकं भवतीत्येकविंशतिर्भवन्ति / [124] सर्वत्र संभवान्मिद्धं' यत्र स्यात्तत्र निदिशेत् / तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित् // 2 यत्र मिद्धं तत्र त[.II A, 7. Fol. 45b] देवाधिकं गणयेत् / यत्रापि तदेवाधिकमिति य एष कामधातौ चैत्तानां नियम उ[क्तस्ततः / / [125] साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते। ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि // ' "न किञ्चिदकुशलं मिद्धं कौकृत्यं च प्रथमध्यानादौ विद्यते / तेन तत्र प्रतिघशाठ्यमदमायावाश्च क्रोधादयः, आह्रोक्यानपत्राप्ये च न सन्ति / य एव प्रथमे ध्याने सन्ति त एव 'ध्यानान्तरे', 'वितर्कश्च न विद्यते / पूर्वोक्ताश्च न सन्तीति 'च'शब्दात् / विचारश्चापि नोपरि।' ध्यानान्तरात्तपरि विचारश्चापि नास्ति पूर्वोक्ताश्च / 'च'शब्दात् माया शाठ्यं च नास्तीति गम्यते। ब्रह्मनो (णो) हि यावच्छाठ्यं पठ्यते, पर्षत्संबन्धात्। स हि स्वस्यां पर्षदि अश्वजिता भिक्षुणा प्रश्नं पृष्ट: "कुत्र तानि चत्वारि महाभूतान्यपरिशेष निरुध्यन्ते" इत्यप्रजानन् क्षेपमकार्षीत्-"अहमस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्" इति / " गतमिदम् // 1. On middha, v. supra, p. 74, n. 1. 2. मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् / A. II. 30cd. 3. कोकृत्यमिद्धाकुशलान्याद्य ध्याने न सन्त्यतः। ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम् // Ak. II. 31. X. The Adv. karika 125 is almost identical with Akb. II. 31. 5. Cf. कत्थ नु खो आवुसो इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति सेय्यथीदं पठवीधातु-पे-वायोधातू ति ?" एवं वुत्ते केवट्ट, सो महाब्रह्मा तं भिक्खु एतदवोच "अहमस्मि भिक्खु ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अनदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेठो सञ्जिता वसी पिता भूतभव्यानं"ति / " Digha. XI. 81. 6. After this the Akb. (II. 32 and 33) deals with the following topics, which are not discussed in Adv : (1) आह्रीक्यस्यानपत्राप्यस्य किं नानाकरणम् / (2) मानमदयोः किं नानाकरणम् /