________________ 120.] द्वितीयोऽध्यायः। 79 ____ 'तत्र दूरङ्गमं शास्तुः सर्वलोकधातुस्थविनेयकार्यकरणात् / एकचरं युगपद द्वितीयचित्ताभावात् / अशरीरं मूर्त्यभावात्, क्रि'यामात्रानुमेयस्वभावत्वाच्च / गुहाशयं शरीरबलेन / तवृत्तिव्यक्तेरिति / ' तस्य धर्माः रांप्रयोगिणश्चैतसिका इति / व्याख्याताः पञ्चप्रकाराश्चत्ताः। अन्येऽपि चानियताः पठ्यन्ते-वितर्कविचारकोकृत्यमिद्धादयः / / तत्रेदं वक्तव्यम् / कस्मिश्चित्ते कति चत्ता भवन्ति ? कामावचरं तावत् पञ्चप्रकारं चित्तम् / कुशल म, अकुशलं द्विविघमावेणिकमन्यत्क्लेशसंप्रयुक्तं च। अव्याकृतं द्विविधं निवृतानिवृताव्याकृताख्यम् // . 1-1. Cf. तत्थ दूरङ्गमं ति चित्तस्स मक्कटसुत्तमत्तकम्पि पुरथिमादिदिसाभागेन गमनं नाम नत्थि, दूरे सन्तम्पि पन. आरम्मणं सम्पटिच्छतीति दूरङ्गमं नाम जातं / सत्तट्ठचित्तानि पन एकतो कणिकाबद्धानि एकक्खणे उप्पज्जितुं समत्थानि नाम नत्थि / उत्पत्तिकाले एकमेव चित्तं उप्पज्जिति तस्मा एकचरं नाम जातं / चित्तस्स सरीरसण्ठानं वा नीलादिप्पकारो वण्णभेदो वा नत्थीति असरीरं नाम जातं / गुहा नाम चतुमहाभूतगुहा, इदं च हदयरूपं निस्साय वत्ततीति गुहासयं नाम जातं / "Dhammapada A. p. 304. 2. मिद्धादय इति / आदिशब्देनारतिविजृम्भिकातन्द्रीभक्तेऽसमतादय उपक्लेशाः क्लेशाश्च रागादयोऽप्यनियतत्वेन गृह्यन्ते / न ह्येते रागादयः पञ्चानां प्रकाराणां अन्यतमस्मिन्नियता भवन्ति ।""आचार्यवसुमित्रः संग्रहश्लोकमाह वितर्कचारकोकृस्यमिद्धप्रतिघसक्तयः / . मानश्च विचिकित्सा चेत्यष्टावनियताः स्मृताः // इति / तदिदमष्टानियमवचनं न बुध्यामहे / दृष्टयोऽपि कस्मानानियता इष्यन्ते / न हि सप्रतिधे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते / तस्माद्यद्वा तद्वेदमुक्तमिति पश्याम: / Saks. p. 132. See Tvb. 14. 3. अव्याकृतभावो द्विविधः / सनिवृतः अनिवृतश्च / संयोजनावृतः सनिवृतः / . अनावृतोऽनिवृतः / कतमे सनिवृताव्याकृता धर्माः / कामधातो सत्कायदृष्टिः अन्तग्राहदृष्टिः तत्संप्रयुक्ता अविद्यासहभुवो धर्माः / रूपारूप्यधात्वोः सर्वसंयोजनानि रूपधातुकायवाक्कर्माणि / इति सनिवृताव्याकृता धर्माः। कतमै अनिवृताव्याकृता धर्माः। आसनं शयनं स्थानं चंक्रमणं विपाकधर्माः नैर्माणिकचित्तं आकाशं अज्ञानं प्रत्ययोच्छेदः / इत्यनिवृताव्याकृता धर्माः / Aam. pp. 47-8 Also cf. क्वेशाच्छादितं कुशलाकुशलत्वेनाव्याकृतं यत् तन्निवृताव्याकृतम् / अनाच्छादितं त्वनिवृताव्याकृतं विपाकजर्यापथिकशैल्पस्थानकनर्माणिकस्वभावम् / Saks. p. 134.