________________ अभिधर्मदीपे [119 सूत्रेऽपि चान्यत्वमुक्तम्-"संज्ञा च वेदना च चेतसिक एष धर्मः" इति // ' इदमिदानीं वक्तव्यम् / युगपदुत्पन्नानां चित्तचैतसिकानां धर्माणां कथं चैतसि का धर्मा इत्युच्यन्ते ? को वा धर्मार्थः ? तदपदिश्यते[119] गुणो विशेषणं धर्मो मात्रावत्तिस्तथाश्रयो। __इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः // प्रधानं हि द्रव्यं विशेष्यभूतमपेक्ष्यः(क्ष्य) गुणधर्मविशेषेण मात्रावृत्तयः शब्दाः प्रवर्तन्ते / क पुण(न)रत्र प्रधानम् ? [120] चित्तं प्रधानमेतेषां कुत इति चेत्। वस्तु मात्रग्रहादिभिः। .. वस्तूपलब्धिमात्रं हि चित्तं तेनोपलब्धे वस्तुनि संज्ञास्मरणे लक्षणानुस्मरणाभिनिरूपणादयो विशेषाः संज्ञाप्रज्ञास्मत्यादिभिर्गुह्यन्ते / 2 'आदि'ग्रहणादत्रात्माभिनिवेशाद्राजस्थानीयत्वाच्च / किञ्च, बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि // उक्त हि भगवता-"चित्तसंक्लेशा सत्त्वाः संक्लिश्यन्ते / चित्तव्यवदानहेतोविशुध्यन्ते” इति / 3 तस्मात्प्रधानं चित्तम् / यथोक्तम् -.' "दूरङ्गममेकचरमशरीरं गुहाशयम् / ये चित्त (तं) दमयिष्यन्ति ते मोक्ष्यन्ते मारबन्धनात् // "4 1. Cf. न च युक्तं चित्तमेव चैत्ता इत्यम्युपेतुम् / "संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रित" इति सूत्रे वचनात्सरागश्चित्तादिवचनाच्च / Akb. I. 35c. Also Cf. सा च वेदना च चेतसिका एते धम्मा, चित्तपटिबद्धा, तस्मा सञ्जा च वेदना च चित्तसंखारोति / M. sutta 4+. 2. Cf चेतसि भवं तदायत्तवृत्तितायाति चेतसिकं; न हि तं चित्तेन विना आरम्मणगहणसमत्थं / असति चित्ते सब्बेन सब्वं अनुप्पज्जनतो; चित्तं पन केनचि चेतसिकेन विनापि आरम्मणे पवत्तती ति तं चेतसिकमेव चित्तायत्तवृत्तिकं नाम / तेनाह भगवा "मनोपुब्बंगमा धम्मा"ति / A. Vibhavint. p. 40. 3. Cf. चित्तसंकिलेसा भिक्खवे सत्ता संकिलिस्सन्ति चित्तवोदाना विसुज्झन्ति / S. III. p. 151. .. 4. Cf. दूरङ्गमं एकचरं असरीरं गुहासयं। ये चित्तं सचमेस्सन्ति मोक्खन्ति मारबन्धना // Dhannahada, III. 4.