________________ 118] द्वितीयोऽध्यायः। [[16] पृथिव्यादि यथा द्रव्यं [ II. A, 6. Fol. 44b ]' नीलादिगुणयोगतः। तैस्तविशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा // यथा हि पृथिवीधातुरब्धातुर्वा रूपरसगन्धाधुपादायरूपैविशेष्यते। नीला ग्र (ग्रा)वाणः, नोलमुदकं मधुरा द्राक्षा मधुराः खजूरा मधुरतरो गुड इत्येवं सुखितं चित्तं दुःखितं चित्तं समाहितं चित्तं सोत्साहं कुसीदं मूढं रक्त द्विष्टमित्येव, मादिभिः शब्देश्चैतसिकैमोगाद्विशेष्यते / ' साध्यसमत्वादयुक्तमिति चेत् / न। उक्तोत्तरत्वात् / विहितमत्र -- भूतभू(भौ) तिकान्यत्वचिन्तायामुत्तरमिति। तस्माद्विशेषप्रत्ययानामनाकस्मिकत्वात्सिद्धमन्यत्वं चैतासिकानामिति // इतश्च चित्तचैतसिकान्यत्वम्[117] भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा। तथैव चित्त चैत्तानां पृथक्त्वमुपधार्यताम् / / यथा खलु भूतानां भौतिकस्य च रूपस्य स्वभावभेदात्, क्रियाभेदाच्चान्यत्वम्; तथा चित्तस्य चैत्तानां च स्वभावक्रियाभेदादन्यत्वं द्रष्टव्यम् // [118] यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते / तथा संसगिसंसर्गाच्चेतोविकृतिरीक्ष्यताम् / / यथा खलु वह्निहरीतकीगुडलवणादिद्रव्यसंबन्धा द्विकारोऽम्बुनि दृश्यते, उष्णमम्ब्लं कषायं मधुरं लवन(ण)मिति / तद्वच्चैतसिकसंबन्धाच्चित्तमपि सुखितं दुःखितं प्रसन्नमभ्युन्नतं सालोकं सान्धकारमिति / n'existent pas, d'accord avec Buddhadeva.. les autres admettent l'existence des mentaux et se divisent en plusieurs opinions***en outre certains Sautrantikas admettent tous les mentaux des Sarvastivadins. LVP Ak. II. p. 150 n. 2. 9. The Ku. quotes a similar agama in this context: ननु वुत्तं भगवता - इध केवट्ट भिक्खु परसत्तानं परपुग्गलानं चित्तं पि आदिसति, चेतसिकं पि आदिसति, वितक्कितं पि आदिसति विचारितं पि आदिसति, "एवं पि ते मनो इत्थं पि ते मनो, इति पि ते चित्तं ति," अत्थे' व सुत्तन्तो ति ? (Digha. I. p. 213.) आमन्ता। तेन हि अस्थि चेतसिको धम्मो ति / Kv. VII. 5. 2. v. supra, p. 25, n. 1. This topic belongs to some lost portions of the Adv. first Adhyaya. V. supra, p. 4. n. 1.