________________ अमिधर्मदीपे [107 [107] बृहत्फला हि* अत्यल्पैस्त्रयोदशभिरन्विताः / ...... बृहत्फलेषु पृथग्जनस्य सुखं च हित्वा दुःखादीनि पूर्वोक्तानि त्रयोदश भवन्ति / युक्ताः षोडष (श) भिस्त्वेते सर्वभूरिभिन्द्रियः / / यद्यार्या भवन्ति तेषां सुखसौमनस्याभ्यामनास्रवाभ्यां समन्वागम इति षोडश भवन्ति / [108] अष्टाभिर्दशभिः सैकरारूप्याः स्वरुपभूरिभिः'। स्वल्पैरष्टाभिः / पृथग्जमस्याष्टा [:] स्वल्पानि भवन्ति / पञ्च श्रा(श्र)द्वाद्धी (दी)नि, जीवितं मनउपेक्षा च / बहुभिरेकादशभिरार्यस्य समन्वागमः / पञ्चभिः श्रद्धादिभिः, द्वाभ्यां सुखसौमनस्याभ्यामनावीभ्याम, जीवितमनउपेक्षेन्द्रियश्चतुभिरणा(ना)स्रवण चैकेन। सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः॥ पञ्चभिः श्रद्धादिभिः पञ्चभिः सुनादिभिः, कायमनोजोवितश्च त्रिभिः।। [109] अष्टाभिनिःशुभो युक्तो दशभिर्वा त्रयाधिकः / ' उच्छिन्नशुभमूलो निःशुभः सर्वाल्पैरष्टाभिः समन्वागतः। सुखादिभिः पञ्चभिः कायजीवितमनोभिश्च / सर्वप्रभूतैस्तु त्रयोदशभिर्यथोक्तैरष्टाभिश्चक्ष. रादिभिश्चतुभिरेकेन च व्यञ्जनेन। द्विलिङ्गाः 'पश्चिमः स्वल्पविशत्याप्येकया परम् // उभयव्यञ्जनस्त्रयोदशभिः स्वल्पैः सुखादिभिः कायजीवितमनोभिः श्रद्धादिभिश्च पञ्चभिः / चक्षुरादीनामलब्धविहीनत्वादनियमः। सर्वबहभिस्त्वेकोनविंशतिभिस्त्रीण्यमलान्यपास्य / समाप्तोऽयं मत्स्यकग्रन्थसमुद्रः / / 1. Cf. युक्तो बालस्तथारूप्ये उपेक्षायुर्मनः शुभैः। Ak. II. 20 cd. 2. Cf. अथ यः सर्वाल्पः समन्वागतः स किद्भिरिन्द्रियैः ? ___सर्वाल्पनिःशुभोऽष्टाभिविन्मनः कायजीवितैः / AK II. 20 ab. 3. समुच्छिन्नकुशलमूलो निःशुभः। Akb. II. 20 ab.