________________ 106.] द्वितीयोध्यायः / स्वल्पैस्त्रयोदशभी रूपभिः पञ्चभिः श्रद्धादिभिश्च जीवितमनउपेक्षाभिश्च / णा(ना) रकस्य तूच्छिन्नशुभबीजस्य चक्षुरादीनि पञ्चैकं व्यञ्जनं वेदनाश्च पञ्च जीवितं मनश्च / तिरश्चां नास्त्युच्छेदः / य इहोच्छिनत्ति सोऽवश्यमवोचिं गच्छति / तेन नत्र नरके श्रद्धाद्या न सन्ति / पञ्च चक्षरादीनि पञ्च च वेद I, एक व्यञ्जनं जीवितं मनश्चेति त्रयोदश भवन्ति / स्युर्बहुभिश्चान्तराभविकाद्याः पृथग्जनास्त्रीण्यमलानि हित्वंकानविंशतिभिः, आर्यास्तु श्रद्धानुसारिणो द्वे अमले हित्वैकं च व्यञ्जनमित्येकानविंशतिभिरेव समन्वागताः // [103] सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः। त एकादशभिर्युक्ता दशभिर्वा नवाधिकः // तत्र सम्यक्त्वनियता आर्या इत्यर्थः / ते पञ्चभिः श्रद्धादिभिर्मनोजीविताभ्यां च तिसृभिर्वेदनाभिरेकेन चानास्रवेन (ण)। सर्वप्रभूतैः पुनरेकान[II. B, 5. Fol. 43a.] 'विंशतिभिरेकलिङ्गद्वयमलवजितः / / [104] प्रज्ञाविमुक्तनामाहत् कायसाक्ष्युभयाह्वयाः / अक्षकादशकोपेता यदि वाऽष्टादशान्विताः / / : सर्वाल्परेकादशभिः श्रद्धादिभिः सुखसौमनस्योपेक्षाजीवितमनोभिरेकेन चानास्रवेण / बहुभिस्त्वष्टाद[श]भिः, द्वे अनास्रवे दौर्मण (न) स्यमेकं च व्यञ्जनं हित्वा / [105] कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकः / अनास्रवत्रयं हित्वा दौर्मण (न)स्यं च / तत्रत्यः पृथग्जनो यदि वैराग्यं गच्छति स देवर्षिर्भवति / एकं च व्यञ्जनं हित्वा परिशिष्टः सप्तदशभिः समन्वागतः / . . ___त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियः // द्वे अनास्रवे हित्वैकं च व्यञ्जनम् / अत्रापि हि सत्यानि दृश्यन्ते / / .. [106] [द्विान] जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः / प्रथमद्वितीयध्यानोपपन्नानां पृथग्जनानां दुःखदौर्मण (न)स्ये हित्वा द्वे च व्यञ्जने त्रीणि चामलानि, पञ्चदशभिः समन्वागमः / दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः // शुभकृत्स्नेषु पृथग्जनस्य सौमनस्यं च हित्वा चतुर्दशभिः समन्वागमः /