________________ 110.] . द्वितीयोऽध्यायः / 'व्याख्यात इन्द्रियानां (णां) धातुगतिप्रभेदप्रदर्शनागतानां विस्तरेण प्रभेदः / अधुना तु मोमांस्यते / किमेते संस्कृता धर्मा यथा भिन्नस्वभावाः, एवं भिन्नोत्पादा अथ नियतसहोत्पादा अपि केचिद्विद्यन्त इति ? विद्यन्त इत्याह। तत्र संक्षेपेण पञ्चेमा धर्मजातयः-रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ता प्रसंस्कृतं च। तत्रासंस्कृतं नोदेति न च व्येति / ' रूपिणां तु धर्माणामयं नियमः[110] सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः। कामेष्वेकाधिकः काये द्वयधिकश्चक्षुरादिषु // सर्वसूक्ष्मः खलु रूपसंस्कारोपादानसंचयभेदपर्यन्तः परमाणुरिति प्रज्ञाप्यते / स तु सप्तद्रव्याविनिर्भागी चतुभिर्भूतै स्त्रिभिश्चोपादायरूपस्त्रिभिस्त्रिभिर्वा भूतैश्चतुभिश्नो[II. A . 5. Fol. 43b]पादायरूपैरविनिर्भागवयंसावष्टम इति / कोशकारस्त्वाह- "सर्वसूक्ष्मो, रूपसंघातः परमानुः (णुः)" इति / ' तेन संघातव्यतिरिक्त रूपमन्यद्वक्तव्यम् / यदि नास्ति संघातोऽपि नास्ति / अतः सिद्धं 'सवसूक्ष्म रूपपरमानु: (णुः)" इति / / 1-1 This Adv.. (from व्याख्यातः to न च व्येति) is identical with Akb. II. 21. 2 Cf. कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः / ___ कायेन्द्रियो नवद्रव्यो दशद्रव्योऽपरेन्द्रियः // Ak. II. 22. 3.Cf. सर्वसूक्ष्मो रूपसंघातः परमाणु रित्युच्यते / यतो नान्यतरो विज्ञायेत / स कामधातावशब्दको अनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः। अष्टौ द्रव्याणि / चत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि / सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा / Akb II. 22ab. -सर्वमूक्ष्मो रूपसंघातः परमाणुरिति / संघातपरमाणुन द्रव्यपरमाणुः / यत्र हि पूर्वापरभागो नास्ति तत्सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुरितीष्यते / तस्माद्विशिनष्टि संघातः परमाणुरिति / Saks. p.. 123. Compare this view with the view of Samghabhadra :-D'apres Sarnghabhadra (XXIII. 3. Fol. 52a): Parmil les rupas 'susceptibles de resistance (sapratigha), la partie la plus subtile, qui n'est pas susceptible