________________ 95:] द्वितीयोध्यायः / एकादशमिराप्तिस्तु फलस्यान्त्य[स्य] हानितः // ' परिहाय परिहायाऽयं समयविमुक्तोऽहनिश्रयविशेषात्पुनर्लभते / कदाचित् तृतीयं ध्यानं निश्रित्य / कदाचिद् द्वितीयं प्रथमं वा। कदाचिच्चतुर्थमनागम्यं वा / इत्यतस्तिसृणां वेदनानां संभवादेकादशभिरुक्तम् // 2 अथैषां त्रयानां (णां) कामरूपारूप्यधातूनां कतरधातुभूम्यालम्बनेन मार्गेण कतरस्य धातोः परिज्ञानं भवतीति ? तदाविर्भाव्यते / [93 ab.] स्वस्य धातोः परिज्ञानं स्व विपक्षदृशा पथा। स्वविपक्षदशा च मार्गणे (मार्गेणा)नास्रवेण परिज्ञानं भवति / तत्र स्वधातुदशा तावद् दुःखसमुदयालम्बनेन, स्वविपक्षदृशा निरोधमार्गालम्बनेन धातुकपरिज्ञानं भवति / सास्रवेण त्वानन्तर्यमार्गेण संगृहीतेन सन्निकृष्टाsधोभूमिविषयेणोर्ध्वसनिकृष्टभूम्यालम्बनेन च विमुक्तिमार्गसंगहीतेनाधोभूमिपरिज्ञानं भवति / आनन्ति]र्यमार्गाणामधोभूमि विषयत्वाद्विमुक्त्याख्यानामूध्र्वभूम्यालम्बनत्वाच्च / अनास्रवानां (णां) तूभयेषामेकभूमिगोचरत्वादिति / / अथ कतिभि(भी) रिन्द्रियैः कामधातुपरिज्ञानं कतिभि(भी) रूपारूप्यधातुपरिज्ञानमिति ? तदिदं प्रतायते[94] कामयातुपरिज्ञानं प्रायः सप्तभिरि ष्यते / समलैंनिर्मलस्त्वर्थैरष्टाभिरभिधीयते // कामधातोस्तावत्-सास्रवैः सप्तभिः परिज्ञानं भवति प्रहाणमित्यर्थः / पञ्चभिः श्रद्धादिभिः मनउपेक्षेन्द्रियाभ्यां च / प्रायोग्रहणात्सौमनस्येन्द्रियेना(णा)पि कस्यचित्समापत्त्यभिप्रायस्य योगिनो मौलभूमिप्रवेशात् / अनास्रवैस्त्विन्द्रियरष्टाभिः / एभिरेव सप्तभि राज्ञेद्रियेण च। प्रायो वचनात्सीमनस्येन्द्रियेन (ण) च नवमेन / / __ [95] रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियः / .. त॥ 1. Cf एकादशभिरहत्त्वमुक्तं त्वेकस्य संभवात् / Ak. II 17 ab. 2. Cf अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्योपेक्षाभिरहत्त्वं प्राप्नुयावत एकादशभिरित्युक्तम् / न तु खलु संभवोऽस्ति सुखादीनामेकस्मिन् काले / कथमनागामिनोऽप्येष प्रसंगो भवति ? न ह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्नोति न च वीतरागपूर्वी परिहीयते / तद्वैराग्यस्य द्विमार्गप्रापणात् / Akb. II. 17 ab. 3. This topic is not discussed in Akb. __ 4. The cd of the karika 93 is missing.