________________ द्वितीयाध्याये द्वितीयपादः। इन्द्रियप्रस्तावे' सर्व इन्द्रियधर्मा विचार्यन्त इत्यतः पृच्छति / अथैषां कुशलानामिन्द्रियानां (णां) कतरेणेन्द्रियेन (ण) कतरच्छामन्य (ण्य)फलं प्राप्यत इति ? तदिदं प्रस्तूयते [92] प्राद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः / / या खल्वेषा चतुष्फलमयी माला तस्याः प्रथमं स्रोतआपत्तिफलमन्त्यमहत्त्वं मध्ये सकदागाम्यनागामिफले / तत्राद्यान्तयोः फलयोण (न)वभिरिन्द्रियैर्लाभः / स्रोत आपत्तिफलस्य तावत्-श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामेकमनयोरानन्तर्यमार्गाद्, द्वितीयं विमुक्तिमार्गावेदितव्यम् / प्रथमेन क्लेशप्राप्तिच्छेदो द्वितीयेन विसंयोगप्राप्त्याकर्षणम् / मनउपेक्षेन्द्रियाभ्यां चेति / अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवजैः, मनइन्द्रियेन (ण) सुखसौमन" स्योपेक्षेन्द्रियानां (णां) चान्यतमेन / ___ "सप्ताष्टाभिश्च मध्ययोः / ' सकृदागाम्यनागामिफलयोः पुनः सप्तभिरष्टाभिर्ण (न)वभिश्चेति 'च'शब्दात्। तत्र सकृदागामिफलं तावद्यद्यानुपूर्विको' लभते, स च लौकिकेन मार्गेन (ण) तस्य सप्तभिलाभः / पञ्चभिः 1. इन्द्रियप्रकरणे in Akb. II. 16 cd. See LVPAK II. p. 134. n. 1. 2. Cf. नवरप्तिरन्त्यफलयोः सप्ताष्टनवभिर्द्वयोः / Ak. II. 16 cd. ..3. Cf. . नवभिरिन्द्रियः प्राप्तिरन्त्यफलयोः / के पुनरन्त्ये / स्रोतआपत्तिफलमहत्त्वं च / के मध्ये। सकृदागामिफलमनागामिफलं च। तत्र स्रोतआपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्मनउपेक्षेन्द्रियाम्यां चेति नवभिः। आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाजेन्द्रियं च विमुक्तिमार्गे / उभाभ्यां हि तस्य प्राप्तिर्विसंयोगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् / Akb. II. 16 c. . 4. आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमुक्तिमार्गेण चाशेन्द्रिस्वभावेन तस्य प्राप्तिः / Saks. p. 113. 5. The following Adv. upto तस्य नवभिराज्ञेन्द्रियं नवमं भवति, is almost identical with Akb. II. 16 d. 6. तत्रानुपूर्विको यः स्रोतापत्तिफलं प्राप्य क्रमात् सकृदागामिफलं प्राप्नोति / Saky. p. 114. . 7. लौकिको मार्गः शान्तायुदाराद्याकारः। Ibd.