________________ अभिधर्मदीपे [91. औपपादुकैः पुनः षट् / चक्षु[II. A. 3. Foll. 41b.] रादीनि पञ्च जीवितेन्द्रियं च। [यद्यव्यञ्जना भवन्ति यथा प्राथम]कल्पिकाः। सप्त पुण(न)र्योकव्यञ्जना यथा देवादिषु / अष्टौ वा यद्युभयव्यञ्जना भवन्ति यथाऽपायेषु / एवं तावत् कामधाती। षड् रूपे - रूपधातौ पुनः षडिन्द्रियाणि वि[पाक]: प्रथमतो लभ्यन्ते / चक्षुरादोनि पञ्च जीवितेन्द्रियं च / अन्त्ये *तु जीवितम् // [आरूप्ये जीवितेन्द्रियं] विपाको लभ्यते / उक्तो लाभः // .. त्यागो वक्तव्यः / सोऽयमाविष्क्रियते[91] प्रियमाणे (नि) रोध्यन्ते त्रीण्यन्ते जीवितम्, मन:, उपेक्षा चेति / अष्टौ तु मध्यमे। ___रूपधातौ म्रियमाणैरष्टौ निरुध्यन्ते / तानि च त्रीणि, चक्षरादीनि च पञ्च / दशाष्टौ नव चत्वारि' कामे पञ्च शुभानि वा // उभयव्यजनैर्दश निरोध्यन्ते / तानि चाष्टौ स्त्रीपुरुषेन्द्रिये च / एकव्यञ्जनैर्ण (न)व / अव्यञ्जनैरष्टौ / सकृन्मरणे खल्वेष न्यायः / क्रमेन (ण) तु नियमान (ण)श्चत्वारि णि (नि) रोध्यन्ते कायजीवितमन उपेक्षेन्द्रियानि (णि) / न ह्येषां पृथनिरोधः / एप च विधिः क्लिष्टाव्याकृतचित्तस्य मरणे द्रष्टव्यः / *कुशले तु चित्ते सर्वत्र श्रद्धादीनि पञ्चाविकानि। एवमारूप्येष्वष्टी, रूपेषु त्रयोदश / इत्येवं विस्तरेण गणयितव्यानि // अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः // 1. Cf, तः षड् वा सप्त वाऽष्टौ वा षड्पेष्वेकमुत्तरे। AR. II. 14. 2. Cf. निरोधयत्युपरमानारूप्ये जीवितं मनः / उपेक्षा चैव रूपेऽष्टौ कामे दश नवाष्ट वा // Ak. II. 15. 3. Cf. क्रममृत्यौ तु चत्वारि शुभे सर्वत्र पञ्च च। Ak. II. 16 ab. See Aam. p. 76. 4. This passage is identical with Akb. II. 16.ab. .