________________ अभिधर्मदीपे निष्क्रियत्वान्न निर्वृतिः // निर्वाणमपि निष्क्रियमसत्फलं सत्क्रियाश्च धर्माः फलवन्त आधिपत्ययुक्ता इति भगवता निवीणं नेन्द्रियं व्यवस्थापितमिति / नात्र किंञ्चिदुपसंख्येयं णा (ना)प्यपनेयमिति // लक्षणमिदानीमिन्द्रियाणां वक्तव्यम् / तत्र चक्षुरादीनामुक्तम् / जीवितश्रद्धादीनां संप्रयुक्तविप्रयुक्तेषूच्यमानेषु वक्ष्यते / दुःखादीनां त्वधुनोच्यते / [86] कायस्य बाधनं दुःखं दौमनस्यं तु चेतसः / बाधन[मिति वर्ततें]। सुखं च सुमनस्ता च सातं शारीरमानसम्॥' .. सातमिति प्रह्लादनापर्यायः। [87ab] वैशिष्टयान्मानसं सातं सुखं क्वचिदुदाहृतम् / तृतीये ध्याने मानसं सातं सुखमित्युदाहृतं भगवता पञ्चेन्द्रियसुखातिशयत्वात् / ' सौमनस्यं तु प्रोतिस्वभावं' सा च तृतीयध्याने नास्तोति सुखं च तत्रोक्तमिति / [Fo1.40 lost] 4...." . [II B, 3. Fol. 41 a] 'भौमम् तदपदिश्यते[88] षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् / 1. Cf. दुःखेंन्द्रियमसाता या कायिकी वेदना सुखम् / साता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् // Ak. II. 7. 2. Cf. तृतीये तु ध्याने सैव साता वेदना चैतसी सुखेन्द्रियम् / नहि तत्र कायिकी वेदनाऽस्ति / पञ्चविज्ञानकायाभावातृ Akb. II. 7. .. 3. Cf. अन्यत्र सा सौमनस्यं ."तृतीये तु ध्याने प्रीतिविरागत्वात् सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् / प्रीतिर्हि सौमनस्यम् / Akb. II. 8. a. 4. In this lost folio, the Adv. might have discussed the following topics, which are dealt with in Akb, II. 8-11. (1) कतीन्द्रियाणि विपाकः कति न विपाकः ? (2) कतीद्रियाणि सविपाकानि, कत्यविपाकानि ? and (3) कति कुशलानि, कत्यकुशलानि, कत्यव्याकृतानि ? -