________________ 85] . द्वितीयोऽध्यायः। योनिशो मनसिकार H खलु श्रद्धादीनां सङ्गीभवति / अयोनिशो मनसि__ कारोऽपि वेदनादीनां रागादिसंप्रयुक्तानामिति सोऽपि नेन्द्रियम् // [83] संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम् / अधिमोक्षोऽपि श्रद्धोपकारीति नेन्द्रियम् / / कालान्तरफलोत्पादसंदेहाभ्यां न चेतना // चेतनायाः खल्वपि कालान्तरेण फलमिति तस्या नासति फले शक्तिराविर्भवति / लोकोपि तस्याः फलसत्त्वाविनाशं दृष्ट्वा विप्रतिपन्नः / कश्चिद् ब्रते निर्हेतुकं फलमिति कश्चिदोश्वरकृतं कश्चिददृष्टादिहेतुकमिति / ' चेतनायाः फलमनभिव्यक्त मिति / ईशित्वं भगवता जानानेनाप्यतस्तस्यास्त्रैलोक्यकारणत्वेऽपि सति चेतना नेन्द्रियेषु व्यवस्थापिता // कुशलमहाभौमेभ्योऽपि [84] नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् / नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः // . अप्रमादस्तावद्वीर्यस्य भाण्डागारिकस्थानीयः। वीर्य कुशलान् धर्मानुपार्जय ति सतान् रक्षति / ह्रीरपि वैशारद्यसपत्नभूता नववधूरिवाप्रगल्भा / तस्याः कुत प्राधिपत्यम् ? उपेक्षापि श्रद्धाभिभूता। अलोभश्व वीर्यविरोधीति नेन्द्रियम् / / [85] न प्रस्रब्धिविदोत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः / .. ' प्रसब्धिः खलु वेदनायाः वत्तिप्राधान्येनाभिभूता। सापि नेन्द्रियम् / अकुशलानामी धर्माणां विनिन्द्य त्वात्तु नास्रवाश्चण्डाल राजवत् // विप्रयुक्तानामपि जात्यादयो न पारार्थ्यात् परतन्त्रा हि जात्यादयो धर्माः परिचारकवत् तेषां कुतः प्रभुत्वम् ? 1. Cf. सन्ति भिक्खवे एके समणब्राह्मणा एवंवादिनो"यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति""सब्बं तं. पुब्बेकतहेतू ति / सन्ति 'एके""सब्बं तं इस्सरनिम्माणहेतू ति / .."एके 'सब्बं तं अहेतु-अप्पच्चया ति / Ang. I. p. 173. 2. v. infra Adv. karika 112. 3. v. infra, Adv. karika 127.