________________ 50 . अभिधर्मदीपे [80. [80] स्पर्शाश्रियोद्भवाधारसंभोगत्वाच्चतुर्दश / स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम् // ' तत्र स्पर्शाश्रयश्चक्षुरादीनि षडिन्द्रियानि(गि)। प्रादुर्भावः स्त्रीपुरुषेन्द्रियाम्याम / आधारो जीवितेन्द्रियेण / संभोगो वेदनाभिः पञ्चभिः। अतस्तावच्चतुर्दशोक्ताणि (नि)। स्वर्गोपपत्तिनिमित्तानि श्रद्धादीनि पञ्च / अपवर्गकारणानि [त्रीण्यनाज्ञातमाज्ञास्यामीन्द्रियादीनि अत एतावन्त्येव // ] यद्याधिपत्यार्थ इन्द्रियार्थः कस्माच्छन्दस्पर्शमनस्कारसंज्ञाचेतनामहाभौमानां [II. A, 2. Fol 39 b.] 'सत्याधिपत्ये नेन्द्रियत्वम् ?2 उक्तं हि भगवता-“छन्दमूलकाः सर्वधर्माः स्पर्शजातीयाः मनस्कारप्रभावाः।" संज्ञाचेतनयोश्च संक्लेशव्यवदानयोराधिपत्यमुक्तमेव कुशल [चेतनायाश्च / एवं] क्लेशानामपि संसारहेतुप्रवर्तण (ने) आधिपत्यम्] / निर्वाणस्य च धर्माग्र्यत्वे कस्मान्नेन्द्रियत्वम् ? तदिदमुच्यते[81] छन्दं वीङ्गिभूतत्वात् स्पर्शो वित्त्यनुहणात् / संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात् // छन्दो हि कर्तुकामता सा च वीर्याङ्गभूता / वीर्यं तु साक्षात् क्रिययाऽभि- . संबध्यते। तदेवेन्द्रियमुक्तम् / स्पर्शोऽपि * "स्पर्शप्रत्यया वेदना" इति तदुत्पत्तौ परिक्षीणशक्तिः। संज्ञापि प्रायोऽपि (प्रायो) लोकव्यवहारपतिता। सा प्रज्ञया परमार्थंकर सयाऽभिभूतेति नेन्द्रियमुक्ता / ' * [82] श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये। प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम् // 1. Cf. प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः / चतुर्दश तथान्यानि निवृत्तरिन्द्रियाणि वा // मतविकल्पार्थो वा शब्दः / अपरे पुनराहुः। प्रवृत्तेराश्रयः षडिन्द्रियाणि "तेनैव प्रकारेण निवृत्तेरन्यानि / श्रद्धादीनि हि निवृत्तेराश्रयाः / आज्ञास्यामीन्द्रियं प्रभवः, स्थितिराजेन्द्रियम्, उपभोग आज्ञातावीन्द्रियेण / Akb. II. 6. 2. This topic (Ad. karikas 81-85) is not discussed in Akb. But, it deals in brief with other dharmas : आधिपत्यादिन्द्रियत्वेऽविद्यादीनामुपसंख्यानं कर्तव्यम् / अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एतेषामपीन्द्रियत्वमुपसंख्यातव्यम् / वागादीनां च वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् / “न खलूपसंख्यातव्यम् / Akb. II. 4. 3. Cf. इमे खो भन्ते पञ्चुपादानक्खन्धा किम्मूलका ति ? इमे खो भिक्खु पञ्चुपादानक्खन्धा छन्दमूलका ति / S. III. p. 100.