________________ 79.] . द्वितीयोऽध्यायः / 49. अनाज्ञातमीज्ञास्यामीन्द्रियादीनां तु त्रयाना (णा) मुत्तरोत्तराङ्गभावे णि (निर्वाणे चाधिपत्यमिति॥ कः पुण (न) रेषामिन्द्रियाणामनुक्रमः ? 2 बम: फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः॥ प्राक्कर्म फलं तावदष्टौ विपाकजत्वात्तस्मात्तानि पूर्वमुक्तानि / तस्मिन विपाके सति संक्लेशसुखादिभिः। पञ्चभिर्मार्गसंभारश्रद्धादिभिः। विशुद्धिरणा (ना) सर्वस्त्रिमिः // कस्मात् पुनविंशतिरेव यथा परिकीर्तितान्युक्तानि न भूयांसि नाल्पीयांसीति ? तदपदिश्यते[79] सत्त्वाख्या सत्त्ववैचित्र्य(त्र्यं)ति (तिः) क्लेशोद्भवश्व यः / मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता // 2 सत्त्वाख्या खलु प्रवर्तते चक्षुरादिषु मनःपर्यन्तेषु षट्सु / एतद्धि मौलसत्त्व. द्रव्यम / सत्त्ववैचित्र्यं द्वाभ्यां स्त्रीपुरुषेन्द्रियाभ्याम् / धृतिर्जीवितेन्द्रियेन (ण)। क्लेशोद्भवः पञ्चभिर्वेदनाभिः। मार्गोपायः श्रद्धादिभिः। फलप्राप्तिस्त्रिभिरन्त्यः। इत्येतस्मादेषामिन्द्रियता मता // . 1. Cf. आज्ञास्याम्याख्यमाज्ञायमाज्ञातावीन्द्रियं तथा। उत्तरोत्तरसम्प्राप्तिनिर्वाणाद्याधिपत्यतः॥ आदिशब्दोऽन्यपर्यायद्योतनार्थः / कतमोऽन्यः पर्यायः / दर्शनहेयक्लेशप्रहाणं प्रत्या. ज्ञास्यामीन्द्रियस्याधिपत्यम्। भावनाहेयक्लेशप्रहाणं प्रत्याशेन्द्रियस्य। दृष्टधर्मसुखविहार प्रत्याज्ञातावीन्द्रियस्य / Akb. II. 4. See Vm. XVI. 10, Dhs, 296, 505, 553 Aam. p. 75, and Asm. p. 75. 2. Cf. Vm. XVI 8. Cf. चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च / संभारो व्यववानं च यावता तावदिन्द्रियम् // Ak. II. 5. 3, एतच्च 'षडायतनं मौलं सत्त्वद्रव्यम्' इति / तदितरेषां तदाश्रितत्वात् / तथा हि षडिन्द्रियाधिपत्यसम्भूतमिन्द्रियाधिष्ठानम् / षड् वा विषया विज्ञानकायाश्च / तदेतदपि सत्वद्रव्यामिष्यते न तु मौलम् / न ह्यधिष्ठानाधाधिपत्यसंभूतं षड् प्रायतनमिति / Saku. p. 98. Also cf. तत्थ अज्झत्तधम्मे परिज्ञाय अरियभूमिपटिलाभो होती ति प्रत्तभावपरियापानि चक्खुन्द्रियादीनि पठमं देसितानि / Vm. XVI. 8. 4. See Vbh A. p. 126.