________________ 48 अभिधर्मदीपे [78. विषयत्वाद्यदा खलु चशूरूपे विद्यते तदा विज्ञानमसत् / यदा विज्ञानं सत्, चक्षरूपे तदासती, विज्ञानक्षणस्थित्यभावे स्वार्थोपलब्ध्यनुपपत्तेश्च / / ' [78 ] क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु / ' सुखादीनामपि पञ्चानामिन्द्रियाणां रागादिक्लेशोत्पत्तावाधिपत्यम् / ' यथोक्तम्- "वेदनाप्रत्यया तृष्णा" इति। "सुखायां वेदनायां रागोऽनुशेते" इति विस्तरः / श्रद्धादीनां पुण (न)रष्टानां सर्वगुणोत्पत्तौ प्रभुत्वमिति / वैभाषा: पुण (न)राहुः "संक्लेशवेदनाभिः"५। तथा युक्तम्--"सुखायां वेदनायां रागोऽनुशेते" इति विस्तरः / व्यवदाने श्रद्धादीनां पञ्चानां तैः क्लेशान् विष्कम्भ्य मार्गोत्पादनाल / यथोक्तम्-"श्रद्धेषीकासंपन्नो बलधैर्यस्मृतिदौवारिकसंपन्नः . समाहितचित्तो विमुच्यते प्रज्ञाशस्त्रेणार्यश्रावकः सर्वाणि संयोजनानि संछिनत्ति' इत्यादि / 1Cf. अपरे पुनराहुः / नैव चक्षुःश्रोत्राभ्यामात्मभावपरिकर्षणं विज्ञाय विषमपरिहारात् / विज्ञाने तु तयोराधिपत्यम् / नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वाऽस्ति / यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत / तस्मान्नैवमेषामिन्द्रियत्वम् / कथं तहि ? . स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम्। Akb. JI 2 ab 'अपरे पुनराहुः 'इति सौत्रान्तिकाः / विज्ञानेन विषमपरिहारः क्रियते न चक्षुः श्रोत्रणेत्यभिप्रायः / 'न रूपदर्शनं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते / ग्रहणं च विज्ञानमेवेति नान्यद्भवति / Saks. p. 96. Also cf. अर्थो ज्ञानावितो वैभाषिकेण बहु मन्यते / सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः // Sarvadarsanasangraha, II. 42. 2 Cf. निकायस्थितिसंक्लेशव्यदानाधिपत्यतः / जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः॥ Ak. II. 3. 3 Cf. पञ्च वेदनेन्द्रियाणि क्लेशोत्पादे बलवन्ति पटूनि च / Aan p. 75. 4 The Abb. gives one more view : व्यवदानेऽपि सुखादीनामित्यपरे / यस्मात "सुखितस्य चित्तं समाधीयते / दुःखोपनिषच्छ्रद्धाषण्णैष्क्रम्याश्रिताः सौमनस्यादयः" इति वैभाषिकाः। Akb. II 1 ab.-'व्यवदानेऽपि""अपरे इति ।""आभिषामिकाः केचिदेवमाहः / Sako p95. ___ 5 'संक्लेशे वेदनानाम्' इति / अत्र वैभाषिकः सार्धमैकमत्यम् / Sakv p 97. ___6 Cf. यो सुखाय वेदनाय रागोऽनुसयो सो अनुसेति / S. IV. p. 208. तत्थ या रत्तस्स वेदना अयं सुखा वेदना / Netti. p. 65. Also, cf. सुखानुशयी रागः। दुःखानुशयी द्वेषः / rogashtra, II. 7-8.