________________ 17.] . प्रथमोऽध्यायः। पूर्ववत् / आत्मभावपरिकर्षणे, तैः . कबडीकाराहारपरिभोगात् / ' [II. B, 2. Fol. 39 a] 'त् प्राग्वत् / अन्य चतुर्णा पुणः (नः) स्त्रीपुरुषजीवितमनइन्द्रियाणां द्वयोरर्थयोः / स्त्रीपुरले न्द्रिययोस्तावत्-सत्त्वभेदसत्त्वविकल्पयोः / सत्त्वभेदः स्त्रीपुरुष इति / विकल्पभेदोऽपि संस्थानवचनगमनादि प्राग्वत् / संक्लेशव्यवदानयोर्वा / तद्वियुतविकला (ल्पा)नां संवरासंवरादीनि न भवन्ति / ' तद्वतां तु संवरफलप्राप्तिः। "जीवितेन्द्रियमनइन्द्रिययोरप्यर्थद्वये पूर्ववत् // स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः // . . कोशकारादयः पुनराहः-"स्वार्थोपलब्धावेव चक्षुरादीनां पञ्चानामाधिपत्य [म्] / "4 तदेतद्वैभाषिकीयमेव किञ्चिद्गृहीतम् / नात्र किञ्चित् कोशकारकस्य स्वकर्ष [स्वकं दर्श] ण (न)म् / वैभाषैरेव स्वार्थोपलब्धिरुक्तेति // दार्टान्तिकस्य" हि सर्वमप्रत्यक्षम्। पञ्चानां विज्ञानकायानामतीत 1cf. संक्लेशव्यवदानयोरित्यपरे। तथा हि तद्विप्रयुक्त विकल्पानां षण्ढपण्डकोभयव्यञ्जनानामसंवरानन्तर्यकुशलमूलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति / Akb. II. 1a. 2 Cf. यथा षण्डपण्डकानाम् / तेषामुपासकसंवरो न प्रतिषिध्यते / केवलं तेषामुपासकत्वं प्रतिषिध्यते / भिक्षुभिक्षुणीनामुभयप्रव्रजितानां संघस्य पक्षस्य संसेवोपासनाऽयोग्यत्वात् / Asm, p. 57. 3 स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम् / चक्षुरादीनां पञ्चानां स्वस्य स्वस्यार्थस्योपलब्धावाधिपत्यम् / मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् / अत एतानि षट् प्रत्येकमिन्द्रियम् / ननु चार्थानामप्यत्राधिपत्यम् / नाधिपत्यम् / अधिकं हि प्रभुत्वमाधिपत्यम् / चक्षुषश्चचक्षूरूपोपलब्धावधिकमैश्वर्यम् / सर्वरूपोपलब्धी सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः / न रूपस्य / तद्विपर्ययात् / एवं यावत् मनसो धर्मेषु योज्यम् | Akb. II. 2 ab. LVP. gives the following note:--Les Karikas II. 2-4, oa Vasubandhu expose la doctorine des Sautrantika, sont omises dans is Samayapradipika. LVPAK. II. p. 103, n. 2. 4 वाष्र्टान्तिकः सौत्रान्तिकविशेष इत्यर्थः। Saks. p. 400. See Jean Przyluski :-"Darstantika, Sautrantika and Sarvastivadin" in theI.H. 1940. Vol.XVI, no.2