________________ 71] . प्रथमोऽध्यायः। [69] परिजानन्खलु प्रीति तामेव प्रजहात्यसौ। प्रामास्वराच्च वैराग्यं याति हन्ति तु नास्रवान् / / तस्यास्तदुपर्यभावात् / [70] परिजानन्सुखं योगी प्रजहाति तदेह च / शुभकृत्स्नाच्च वैराग्यं याति क्लेशान हन्ति तु / / सुखेन्द्रियस्य तृतीयाध्याना'दुपर्यभावादकृत्स्नधातून क्लेशाजहाति / / गमतेतत्प्रयोजनागतं प्रकरणम् / प्रकृतमेवोच्यताम् / अथैषां धातूनां के कति विज्ञानविज्ञेयाः ? तदारभ्यते [71 ] द्विविज्ञेयाः गुणाः पञ्च पञ्चरूपादिगुणाख्या धातवश्चक्षुरादिविज्ञानमनोविज्ञानविज्ञेयाः। शेषा मनोविज्ञानविज्ञेयाः // ___ कति हे तुः कति न हेतुः ? तदाख्यायते . हेतुः सर्वे क्षराक्षराः / ' सर्वधर्मा हि कारणहेतुस्वभावाः / क्षरास्तु यथायोगं चिन्त्याः / / कतीन्द्रियात्मकाः ? कति नेन्द्रियस्वभावाः ? तदाविष्क्रियते अन्यत्र धर्मधात्वर्था (धी)च्छड्बाह्या नेन्द्रियात्मकाः / / अर्थादायातमाध्यात्मिकाः सर्वे धातवः। बाह्याः पञ्चरूपशब्दगन्धरसंस्पर्शधर्मधातोश्चा, नेन्द्रियस्वभावं जीवितेन्द्रियश्रद्धादिसुखादिपञ्चकवर्जमिति / अभिधर्मदीपे विभाषा[प्रभायां वृत्तौ प्रथमोऽध्यायः / ] 1. Cf. पञ्च बाह्या द्विविज्ञेया नित्या धर्मा प्रसंस्कृताः। Ak. I. 48 ab. 2 Cf. धर्मार्षमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः |As. I. 48 cd.. -