________________ 12 अभिधर्मदीपे। [63. [63 ] रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् / सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साख्यं रूपधातुपर्यापन्नम्। तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन / / अनुशयत्रयं कतरदार्यो जहाति भवरागमानाविद्याख्यम् ? भावनाप्रहातव्यं संयोजनं तु न धातुपरिच्छिन्नमिति न किञ्चित्तदा जहाति // [64 ] चक्षुर्विज्ञानधातु तु परिजानंस्तमेव च / परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते / / [65 ] न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ। ___ गन्धधातु रसाख्यं च परिजानन् पृथग्जनः॥ [66 ] कामवैराग्यमाप्नोति ध्रुवं हनुशयानपि / _____ तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम् // कामावचराच्छत्रिंशदनुशयाजहाति / त्रीणि च संयोजनानि प्रतिघ. संयोजनमामात्सर्यसंयोजने च / गन्धरसधातू परिजानन् पृथग्जनः / / [67 ] प्रार्यस्तु कामवैराग्यं करोत्यनुशयानपि। .. चतुरः परिजानाति प्रतिघकामरागमानाविद्याख्यान (न्) भावनाहेयान् / / पर्यादत्तेऽपि च त्रयम् / / प्रतिामात्सर्यसंयोजनाख्यम् / / .. [68 ] परिजानन्मनोधातुमारूप्येभ्यो विरज्यते / आर्य इति वर्तते। जहात्यनुशयास्त्रींश्च 'रागमानाविद्याख्यान् / पर्यादत्ते त्रयं तथा // एतदेव / /