________________ 62.1 प्रथमोऽध्यायः / [58 ] निश्रित्य खल्वनागम्यं निश्रयांश्चतुरोऽथ वा। अनास्रवेन (ण) मागंण चक्षुर्धातुनिरुध्यते / / नवसु भूमिषु खल्वनास्रवो मार्गः। चक्षुर्धातुस्तु पञ्चभूमिकः / तत्र प्रज्ञाविमुक्तस्यालब्धध्यानस्यार्यस्य (स्या) नागम्यं निश्रित्य चक्षुर्धातुनिरुध्यते / निरोधमार्गज्ञानात्मकस्य त्रिधातुप्रतिपक्षत्वाद्धयानलाभिनः पुण (न) श्चतुरो णि(नि)श्रयानिश्रित्य ध्यानान्तरिकायाः प्रथमेन ग्रहणात् / / [59 ] अनागम्यं तु निश्रित्य गन्धधातुणि (नि)रुध्यते / ध्या नालाभिनस्तन्निरोधात् / मनोधातुरणा (ना)गम्यं यदि वा सप्तनिश्रयात् // चत्वारि ध्यानानि त्रींश्चारूप्यान्, तस्य त्रैधातुकत्वात् / / [ 60 ] अनागम्यं तथैवाद्यं चक्षुविज्ञानसंज्ञकः / निरुध्यत इति वर्तते / तस्य कामप्रथमध्यानसमापन्नत्वात् / . धर्मधातोविचित्रत्वाद्यथायोगं विनिर्दिशेत् // धर्म धातुः खलु कश्चित्कामावचर एव यथा प्रतिघादयः / कश्चित्कामे प्रथमध्यानयोर्यथा वितर्कविचारादय: / कश्चित्कामे प्रथम द्वितीयध्यानयोर्यथा प्रीतिः / कश्चित्कामे तृतीयध्यानयोर्यथा सुखेन्द्रियम् / कश्चित्त्रधातुको यथा जीवितेन्द्रियादयः। अत उच्यते 'यथायोगं विनिदि [II. B, I. Fol. 38a]. 'शेत् / एवमन्यानपि धातूननेनैव यथोक्तेन न्यायेन 'यथायोगं विनिर्दिशेत् इति // ___ इदमिदानीमन्यद्वक्तव्यम् / यदा पृथग्जनश्चक्षुर्धात रूपाप्तं परिजानाति तदा कतमाद्धातोर्वैराग्यमाप्नोति ? कति च कुत्रत्याननुशयान् जहाति ? का[नि च] संयोजनानि पर्यादाय जहाति ? तदाविष्क्रियते[61 ] चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः / कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति / / [62 ] तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च। पर्यादत्त न किञ्चित्त संयोजनमसौ तदा // अनुशयानां हि धातुपरिच्छेदो न संयोजनानाम् /