________________ अभिधर्मदीपे [56. | 56 ] प्रथमं निर्मलं चित्तमसामाग्यात्क्षणः स्मृतः / तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः // ' किं पुण(न)रेते चक्षुरादयस्तुल्यं विषयं गृह्णन्ति, आहोस्विन्न्यूनम विक वा तदाविष्क्रियते-- [57 ] प्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यवस्त्रयम् / द्वयोश्चक्षुःश्रोत्रयोरणि (नि)यम इत्याख्यातं भवति / / किंपुण(न)रेषां चक्षुर्विज्ञानादीनां सहज एवाश्रयः, आहोस्विदतीतोऽपि ? तदुच्यते / ... पश्चिमस्याश्रयोऽतीतः मनोविज्ञानस्य क्रियावतो नित्यमाश्रयोऽतीतः। पञ्चानां तैः सहापि च // पञ्चानां विज्ञानकायानां तैः सहापि चातीतश्चेति 'च'शब्दात् / एवं चतुष्कोटिक आरभ्यते। ये धर्मा विज्ञाननिश्रयाः समनन्तरा अपि ते ? प्रश्नश्चतुष्कोटिकः / निश्रय एव चक्षुरादयः / समनन्तरा एव वेदनादयः / उभयं समनन्तरवि(नि)रुद्धं विज्ञानम् / नोभयमेतानाकारान् स्थापयित्वा / इद मिदानीमभिधर्मसर्वस्वं कोशकारकस्मृतिगोचरातीतं वक्तव्यम् / अर्थषामष्टादशानां धातूनां कतमं निश्रयं निशृ(श्रि)त्यानास्रवेण मार्गेण कतमो धातुणि(नि)रुध्यते ! 1Cf. क्षणिकाः पश्चिमास्त्रयः / / मनोधातुर्धर्मधातुनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः। ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकाले क्षणमेकनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते / अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैष्यन्दिकः। तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तौं मनोधातुर्मनोविज्ञानधातुश्च / शेषास्तत्सहभुवो धर्मधातुः / Akb. I. 38 ab. The Pali tradition has also used the word ksana to describe a similar unique moment : एको व भिक्खवे खणो च समयो च ब्रह्माचरियवासाय / Ang. IV. p. 227. 2 Cf. त्रिभिर्घाणाविभिस्तुल्यविषयग्रहणं मतम् / घरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तः // Ab. I. 44. These topics (from Ad. karikas 58-70) are not discussed in the Akb.