________________ 55.] . प्रथमोऽध्यायः / इदमिदानी वाच्यम् / चक्षुरादिकारणसामग्रीसन्निधाने सति चक्षुविज्ञानोत्पत्तो कस्माच्चक्षुःश्रोत्रादिविज्ञानमित्युच्यते ? तत्र [विसर्जनं क्रियते][54] [असाधारण] वैशिष्टयादेश्वर्यादान्तरङ्गयतः / सत्यप्यणे (ने) कहेतुत्वे विज्ञानं तैर्विशेष्यते / / ' चक्षुरादीन्द्रियविशेषाद्विज्ञान विशेषो दृष्टः / चक्षुरादीनां च चतुभिः कारणैरीशित्वं दृष्टम् / असाधारणकारणत्वेन चान्तरङ्गय इति / / अत्राह / अथ कस्मात् सर्वपदार्था [नां] द्रव्यस्वभावे(वत्वे) निर्वाणमेव परमार्थतो द्रव्यमित्युच्यते यतो धर्मधातुरेव तद्योगाद्रव्यवानित्याख्यायते / / कस्माच्च सर्वसंस्कृतानां क्षणिकत्वे सति त्रय एवान्त्या धातवः क्षणिका इत्युच्यन्ते ? तदुभयं प्रदर्श्यते / [55] नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा / सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः / / मित्यपर इत्यलं प्रसन। ननु न कर्मवशादिन्द्रियद्वयोत्पत्तिः, किमन्यदेवोच्यते शोभार्थ व्यक्त्यर्थ चेति / कर्मवशादेवानेन्द्रियद्वयोङ्गव उक्तः / कथमिति / एवं विभक्तावयवाश्रयेणानादिकालाभ्यस्तः शोभाभिमानः सत्त्वानां प्रवर्तते / अतस्तदभिलाषपूर्वकेण स्फुटोपलब्ध्यभिलाषपूर्वकेण च कर्मणा तदिन्द्रियमभिनिवर्त्यमानं शोभायं व्यक्त्यर्थं चोद्भवतीत्युच्यते / Saks. p. 42. 1Cf. तद्विकारविकारित्वादाश्रयश्चक्षुरादयः। अतोऽसाधारणत्वाच्च विज्ञानं तैनिरुच्यते // Ak. I. 45 2 See Adv. karika 77. . . 3 See Asm p. 16. 4 Cf त्रिषाऽन्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः। Ak. I. 38 ab.. . असंस्कृतं हि सारत्वाद् द्रव्यम् / Akb. 1. 38 ab. . u For a controversy on the use of the word kusala for Nirvana, see Kv. XIX 6-इदानि कुसलकथा नाम होति / तत्थ अनवज्जम्पि कुसलं इट्ठविपाकम्पि / अनवजं नाम किलेसविप्पयुत्तं / अयं नयो ठपेत्वा अकुसलं सब्बधम्मे भजति / इट्ट विपाकं नाम आयति उप्पत्तिपवत्तेसु इट्ठफलनिप्फादकं पुच। अयं नयो कुसलत्तिके आदिपदमेव भजति / येसं पन इमं विभागं अग्गहेत्वा अनवज्जभावमत्तेनेव निब्बानं कुसलं ति लद्धि, सेय्यथापि अन्धकानं"KvA. XIX 6. Cf. also, स एवानास्रवो धातुरचिन्त्यः कुशलो ध्रुवः / __ सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः / / कुशलो विशुद्धालम्बनत्वात्, क्षेमत्वात्, अनास्रवधर्ममयत्वाच्च / Trimsika, 29..