________________ 38 / अभिधर्मदीपे सत् वस्तु धर्मो द्रव्यमायतनं धातुरित्येवमादयः / . ये तु सानवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः // ' दुःखं लोको भवः समुदय इत्येवमादिभिर्णा(ना)मभिः शब्दयन्ते / / अथ कस्माच्चक्षुःश्रोत्रघ्राणानां द्वित्वे सत्येकधातुता ? "तदारभ्यते[53 ] स्वात्म्यगोचरकार्यानां (णा) मेकत्वादेकधातुता। चक्षुरादिद्विभावेऽपि त्रयाना(णा)मपि खिल्वेतेषामेकस्वभावत्वादेकगोचरत्वादेककार्यत्वाच्च द्वित्वेऽपि स['त्येकाधिपत्यं चकधातुता च] निवर्त(त)ते / द्वयुत्पत्तिः कर्मत (त्रि)त्वशात् // ये तु कथयन्ति "शोभायं तु द्वयोद्भवः' इति तेषां श्लीपद-[I. A, 8. Fol. 37 b.] गन्त्र (न्ड)प्रभृतीनाम् अ(ति) शोभार्थमुत्पत्तिरित्यापन्नम् / / 6 / / 1cf. ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् / त एवाऽध्वा कथावस्तु सनि:साराः सवस्तुकाः // _ ये सास्रवा उपादानस्कन्धास्ते सरणा अपि। दुःखं समुदयो लोको दृष्टिस्यानं भवश्च ते // . Ab. I. 7-8 2 Cf. जातिगोचरविज्ञानसामान्यावेकधातुता। द्वित्वेऽपि चक्षुरादीनां Ak. I. 19 abc. 3 Here the Ms. is broken. Only the avagraha on स्य is visible. For the restoration-adhipatyam etc. see below, note 6. 4 This should be त्रित्व-वशात् / 5 Cf. शोभार्थ तु द्वयोद्भवः / एकधातुत्वेऽपि तु चक्षुरादीनां द्वयोः संभव आश्रयस्य शोभार्थम् / अन्यथा ह्येकचक्षुःश्रोत्राधिष्ठानकनासिकाबिलसंभवात् महद्वैरूप्यं स्यादिति / Akb. [ 19 d.. Yasomitra gives various viewpoints on this controversy! आचार्यसंघभद्रस्त्वस्य सूत्रस्यार्थं विववे / शोभार्थमित्याधिपत्यार्थमित्यर्थः / आधिपत्यसंपन्नो हि लोके शोभत इत्यपदिश्यते / येषां चेन्द्रियाणाममून्यधिष्ठानानि तेषां परिशुद्धदर्शनश्रवणघ्राणाद्याधिपत्यं स्यात् / न हि यथा द्वाभ्यां चक्षुभ्यां परिशुद्ध दर्शनं भवति तथैकेन / एवमितरयोरपि। एवं चैषामिन्द्रियत्वं हीयेत तदर्थमेतदुक्तं स्यादिति / स्फुटोपलब्ध्यर्थमित्यर्थः / इहापि शक्यमेवं वक्तुम् / एकमेव परिस्फुटोपलब्ध्याश्रयभूतं विस्तीर्ण कर्मणोत्पद्यताम् / किमाधयविच्छेदेनेति / विभाषायां तु लिखितमेतत् पक्षद्वयम् / शोभायं द्वयोद्भव इत्येको व्यक्त्यर्थ