________________ 32.] .. प्रथमोऽध्यायः। कोशकृदाचष्टे-नत्र किञ्चित्फल मुत्प्रेक्ष्यत इति / ' तं प्रतीदं फलमादर्श्यते / तत्र खलु. ____योगिवश्वरूप्यं प्रदर्शितम् // एतद्वेश्वरूप्यं योगिणां (नां) यदन्यतः कायोऽन्यतश्चक्षुरत्यतः रूपमन्यतो विज्ञानं गृहीत्वा पश्यन्ति। विभूनि च शरीराणि निर्माय मनोजवया रि(ऋ) या गत्वा बुद्धा भगवन्तो यथेच्छं लोकधात्वा (त्व)न्तरेषु विनेयानां बुद्धकार्य "कुर्वति / दिव्याभ्यां चक्षुःश्रोत्राभ्यां रूपाणि दृष्ट्वा शब्दांश्च श्रुत्वा यथेच्छं युगपदनेकानि पाञ्चगतिकानि शरीराणि निर्मायानेकयतिधात्वा (त्व)न्तरेषु विनेयकायं कुर्वन्तीति / गतमेतत् प्रासङ्गिकं प्रकरणम् / / . इदमधुना वाच्यम् / स्कन्धोपादानस्कन्धयोः कः प्रतिविशेष: ?2 तदुच्यते / स्कन्धास्त्रिभिः सत्यः संगृहीताः" / यस्मात् [51 ] सालवानालाः स्कन्धा ये तूपादानसंजिताः / सालवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः॥ कारणैरिति वाक्याध्याहारः। तस्मादुपादानस्कन्धाः सत्यद्वयसंगहीताः। निरोधसत्यं तु स्कन्धलक्षणानुपपत्तेः स्कन्धलक्षणव्यतिरिक्तमिति द्रष्टव्यम् // [ 52 ] अध्वाद्याः स्कन्धपर्यायाः अध्वान स्कन्धाः संस्कृताः कथाव स्त्वित्येवमादयः। धर्माद्या वस्तुनः सतः। 1 Cf. अनियतं मनः कदाचित् कायमनोविज्ञानधर्मः समानभूमिकं मनो भवति / कदाचिदूर्ध्वभूमिकम् / पञ्चभूमिकेऽपि हि काये सर्वभूमिकानि मनआदोनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते। अतिबहुग्रन्थभारपरिहारार्थन्तु नेदानी पुनराख्यायते / अल्पं च प्रयोजनं महांश्च श्रम इति"| Akb. I. 47 d. 2 See Asm. p. 3. and Vm. XIV 214. 3 Cf. सासवावानवा धर्माः Ak. I. 4a. . 4 Cf. पञ्चूपादानक्खन्धा ति तथा तेभूमका मता। .. . भेवाभावेन निम्बानं खन्धसङ्गहनिस्सटं // A. Sangaho. VII. 42.