________________ अभिधर्मदीपे [46] एकस्य चक्षुषः कार्य विज्ञानमथवा द्वयोः।' इति द्विचन्द्रदर्शणा (ना)देविज्ञानस्य... || [प्राप्तग्राही] नि(णि) आहोस्विदप्राप्तग्राहीणीति ? तदुच्यते / अप्राप्याथ मनश्चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा // घ्राणरसनकायेन्द्रि यानि (णि) प्राप्तग्राहीणीत्यर्थः // अत्र काणादः पश्यति। नाप्राप्तग्राहीनी (णी)न्द्रियाणि / चक्षुषो हि रश्मिर्गत्वा पश्यति / श्रोत्रं त्र सर्वगतं प्राप्येव सर्वं शृणोति / तं प्रतीदमुच्यते। [45] अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् / यावता हि कालेन देवदत्तः स्वपाणितललेखां पश्यति तावतैव चन्द्रलेखाम् / न चायं गतिमतां धर्मः। गतिमन्तो हि देवदत्तादयो दूरं चिराद्गच्छन्त्यासन्नं क्षिप्रमिति / न / प्रदीपवत् तत्सिद्धेः। प्रदीपादिप्रभावश्चेत् यथा खलु यावता कालेन प्रदीपो नेदिष्ठं रूपमभिव्यनक्ति तावता दविष्ठं तद्वदिति / तत्र प्रत्यवस्थानम् ___ न समं तत्समुद्भवात् // 1cf. उभाभ्यामपि चक्षु| पश्यति व्यक्तदर्शनात् / उभाभ्यामपि चक्षुभ्यां पश्यतीत्याभिधार्मिकाः। Akb. I. 43 ab. 9 Here the Ms. is broken. This line seems to refer to the view of Vasubandhu. See LVPAk. I. p. 86. Yasomitra gives following comment:'उभाभ्यामपि' इत्यपिशब्दादेकेनापि नात्र नियम: / 'द्वयोविवृतयोः परिशुद्धतरं दर्शनम्' इतिउक्तं भवति नैकतरान्यथीभावादिति / 'उन्मीलितार्धनिमीलितयोरक्ष्णोरेकस्यान्यथीभावाद्' द्वयोरेकतरत्वाद्यद्यन्यथीभवति, यदि यदुन्मीलितं तदर्धनिमीलितं क्रियेत सर्वनिमीलितं वा तवा द्विचन्द्रदर्शनं न भवति / अतोऽवगम्यते द्वयोरपि चक्षुषोरत्र विज्ञानोत्पत्तो व्यापारोऽFertfat i Saku. p. 83. 3Cf. चक्षुः श्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा / प्राप्तविषयमित्यर्यः। घ्राणं कथं प्राप्तविषयम् / निरुच्छ्वासस्य गन्धाग्रहणात् / Akb. I. 43 cd. For details on this topic, see LVPAk. I. pp. 88--9. The Akb. I. 43 d. contains a discussion: किं पुनः परमाणवः स्पृशन्त्यन्योऽन्यमाहोस्विन्न? This discussion is not found in the Adv.