________________ अभिधर्मदीपे [44] चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरम् / आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः // ' चक्षुर्द्रव्यं हि द्रष्टस्वभावम् / तस्य हेतुप्रत्ययसामग्रीपरिग्रहप्रबोधितशक्तेः रूपदर्शनक्रियामात्रमुत्पद्यते। द्रव्यक्रिययोश्चान्यत्वं सिद्धमाध्यमानरूपत्वा निरपेक्षसापेक्षव्यपदेशित्वाच्च द्रष्टव्यम् / तत्र चक्षुर्मूर्तिक्रियावद्विज्ञानाधिष्ठितं दर्शण (न) क्रियामारभते / न विज्ञानशून्यम् / यथैव चक्षुर्विज्ञानमालोचनाधिष्ठितक्रियं विजानाति, न केवलम्, परम्परानुग्रहबलाद्धधनयोः प्रदीपादिप्रत्ययान्तरपरिगृहीतयोर्युगपदेकस्मिन् विषये वृत्तिलाभो भवति / यस्त्वेतदतिपत्ये (त्य)वं कल्पयति-'कारणभूताभ्यां प्रागुत्पन्नाम्यां चक्षुरूपाभ्यां कार्यभूतं विज्ञानं सहैकस्मिन् काले नावतिष्ठते' इति तस्य सक्षाद्विषयानुभवनाभावादनुमानागमाभावप्रसंगः। अनुभवज्ञाने चासति. मनोविज्ञानस्मृतिगोचराभावादनुत्पत्तिप्रसंगः। नियतविषयस्मरणाभावाच्च / तस्माद्विज्ञानं नि यताश्रयालम्बनलब्धप्रतिष्ठं सहकारिकारणसामग्रीसन्निपातोपजनितक्रियं साक्षाद्विषयमुपलभते। चक्षुरप्यालोचयति प्रदीपस्तत्कालमेवावभासयति / य एते विज्ञानचक्षुरूपादयः स्वहेतुसामग्रीप्रबोधितशक्तयः [ते] विषयप्रतिविज्ञप्त्यालोचनावभासनाख्यां युगपत् सौधीं सौधी वृत्ति प्रति पद्यन्त इति युक्तिमती नीतिः। / तस्मात्सत्स्वप्यन्येषु प्रत्ययेषु दर्शण(न)क्रियायाश्चक्षुषः प्राधान्यात्, तदेवाजसा पश्यतीत्युच्यते। यथा वा देवदत्तः स्थालीजलज्वलनतण्डुलादिषु सत्स्वपि पाके प्रवर्तमाने स्वस्यामधिश्रनो(णो)दकासेचनतण्डलावपनदर्वी. परिघट्टनाचामनिस्रावणक्रियायां लब्ध"सामर्थ्यः / साधनसन्नियोगे च पर, प्राप्तैश्वर्यो देवदत्तः प्राधान्यात्पचत त्युच्यते। यदा पुण (न)स्तण्डुलानां 1 चक्षुः पश्यति रूपाणि सभागं न तदाधितम् / विज्ञानं दृश्यते रूपं न किलान्तरितं यत: // Ak I 42.. The Akb. I. 42 contains a long discussion on this controversy. LVP. gives the following four views : Dharmatrata dit que la connaissance visuelle (caksurvijnana) voit les visibles. Ghoshaka dit que la prajna assciee a la connaissance visuelle voit les visibles. Le Darstantika dit que le 'complexe' (sa magri) voit les visibles. Le Vatsiputriya dit qu'un seut ceil voit les visible LVPAK. I. p 82. - 2 This is a view of the Darstantika, cf. वाष्र्टान्तिकस्य हि सर्वमप्रत्यक्षम् / पञ्चानां विज्ञानकायानामतीतविषयत्वाद्यदा खलु चक्षूरूपे विद्यते तदा विज्ञानमसत् / यहा विज्ञानं सत् चक्रूपे तदासती, विज्ञानक्षणस्थित्यभावे स्वार्थोपलब्ध्यनुपपत्तश्च / V. infra, Adv. karika 77 cd.