________________ प्रथमाध्याये चतुर्थपादः। आह / यदुक्तम्-चक्षुर्दर्श (न)मष्टप्रकारा च प्रज्ञा दृष्टिरिति / अथ विज्ञावं पश्यत्यथ न पश्यति ? यदि पश्यति दशधर्मा दृष्टिस्वभावा भवन्ति / अथ न पश्यति दार्टान्तिकपक्षस्तमु ज्झितो भवति / देवा एनं ग्रहीष्यन्ति ग्रहीतव्यं चेन्मस्यन्ते / यत्तक्तं दशधर्मा दृष्टिस्वभावाः प्राप्नुवन्तीत्यत्र विज्ञानस्य मुख्यदर्शनकल्पणा (ना)प्रतिषेधमुपरिष्टात् करिष्यामः / इदं तु वक्तव्यम् / चक्षुश्चक्षुविज्ञानप्रज्ञासामग्रीणां कः पश्यति ? कुतः संशय इति चेत् / सर्वत्र दोषदर्शणा (ना)त् / यदि तावच्चक्षुः पश्यति यावत्कायः स्पृशति ततो युगपत् सर्वविषयोपभोगप्रसंगः' / अथ चक्षुर्विज्ञानं पश्यति कस्तहि विजानाति ? व्यवहितमपि किं न पश्यति, अप्रतिघत्वात् ? अथ प्रज्ञा पश्यति श्रोत्रविज्ञानादिष्वपि प्रज्ञा विद्यत इति तत्रापि दर्शण (न)प्रसंगः। अथ चक्षुरादिसामग्री पश्यति सापि खलु चक्षुरादिसामग्रयङ्गव्यतिरिक्ता स्वभावक्रिया [s] भावान्न विद्यते / ___चक्षुरादिसामग्रयङ्गाणा (ना) मपि प्रत्येकं दर्शण (न) शक्तिक्रियाऽभावो[s]न्धशं (श) तवदित्यसत्त्वम्। सर्वसामग्रीणा (गां) सर्वकार्यकरणापत्तित्वा[त्], विशेषाभावात् / . हेतुप्रत्ययसामग्री प्रतीत्य क्रियामानं विज्ञानमुत्पद्यत इति चेत् / न / जनिकर्तृभावे जन्मक्रियास्वातन्त्र्यानुपपत्तेः, नश्यादिवत् / हेतुप्रत्य°यानां परतन्त्राणां स्वात्मन्यवस्थितानां निरात्मकानां निरात्मककरणशक्त्ययोगात् / किञ्च, विज्ञेयाभावे विज्ञानानुपपत्तेः, दाह्यदहनवत् / किञ्च, विज्ञानक्रियाशृ(श्रि)ताभावे तदभावाच्चित्रकुड्यवत् / जन्मनाशयोर्द्धमिधर्मत्वे विरुद्धानामन्यतरोपपत्तिविणा(ना)शस्य वा सजातिहेतुत्वप्र[I. B. 7 Fol. 36a.] संगः / यज्जात्यनुवृत्तिस्तद्बीजमिति चेत् / न / कुशलाकुशलादिचित्तनिरोधे [बीज] त्वानुपपत्तेः, सामग्रीपक्षोत्सर्गात्सांख्यमताभ्युपगमदोषाच्च / तेषामपि प्रधानाख्याद्बीजादेकस्मानिरपेक्षात्सर्वं संभवति / निमित्तान्तरापेक्षा शक्तशक्तेरिति चेत् / न। अक्षणिकत्वदो[षात् / सर्वसामग्रयङ्गबीजाभ्युपगमे कार्यस्वभावादिवैचित्र्यप्रसंगः। तस्मानिर्दोष: पक्षो वक्तव्यः / सोऽयं प्रक्रम्यते।