________________ अभिधर्मदीपे [+3. ... यथा समेघाया (यां) तिमिरपटलावगुण्ठितचन्द्रनक्षत्रचक्रा (क)प्रायां रजन्यां रूपाणि दृश्यन्ते तथा क्लिष्टाः पञ्चदृष्टयो ज्ञेयं पश्यन्ति / यथा तु विगतरजांसि निशाकरकिरणांशुकावगुण्ठितायां त्रियामायां रूपाणि दृश्यन्ते, तथा लौकिकी सम्यग्दष्टिः पश्यति / यथा तु मेघपटलावगुण्ठिते दिवाकरकिरणानुद्भासिते दिवसे रूपाणि दृश्यन्ते तद्वच्छैक्षी दृष्टिः पश्यति / यथा तु द्रव्यकनकरसावसेक पिजरदिनकरकिरणप्रोत्सारिततिमिरसंचये दिवसे . च्च (चक्षुष्मतो देवदत्तस्य रूपं चक्षुरीक्षते, तथा बुद्धानामहतां प्रज्ञाचक्षुरविद्याक्लेशोपक्लेशमलदूषिकातिमिरपटलवजितं ज्ञेयं पश्यतीति / अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः /