________________ 43.] . प्रथमोऽध्यायः। यः स्वक्रियां भजते स सभाग इत्युच्यते। यः स्वक्रियाविरहितः स तत्सादृश्यमात्रभजमानत्वात् तत्सभाग इत्याख्यायते / ' अत्र सभागस्त्रिविधः / अध्वसु स्वक्रियाभेदेन वाच्यः / एवं तत्सभागः क्रियाविरहितो वाच्यः / अनुत्पत्तिधर्मकं चतुर्थमिति काश्मीराः // कति दृष्टिः कति न दृष्टिः ? [ 42 ] चक्षुः सधर्मधात्वंशं नवधा दृष्टिरुच्यते / ' चक्षुस्तावल्लोकेऽपि दृष्टिरिति प्रतीतम् / धर्मधातोरपि प्रदेशो [I. A, 6. Fol. 35 b.] दृष्टिस्वभावोऽष्टविधः क्लिष्टाक्लिटप्रज्ञात्मकः। शेषस्तु न दृष्टिः / पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरणि (ति) तोरणात् // " नितीरिका हि दृष्टयो विचारणाश्रयात् / सा त्वविकल्पिका जडस्वभावा। अत्यल्पमिदमुच्यते / मनोविज्ञानभौम्यनिरासादिसंप्रयुक्ता' न दृष्टिऋ (रि)त्युपसंख्यातव्यम् / . कथं पुण (न) रेताः प्रज्ञाः पश्यन्ति ? तदिदमाविष्क्रियते / [ 43 ] समेघामेघराज्यहोर्दश्यं चक्षुर्यथेक्षते / क्लिष्टाक्लिष्टदृशौ तद्वच्छेक्षाशैक्षे च पश्यतः // ' 1f. सभाग इति कोऽर्थः। इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः। स एषामस्तीति सभागः। स्पर्शसमानकार्यत्वाद्वा। ये पुनरसभागास्ते तेषां सभागानां जातिसामान्येन सभागत्वात् तत्सभागाः। Akb. I. 39 cd. 2 Cf. तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् / यद् दृष्टवा रूपाणि निरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिमि / पाश्चात्यानां पुनः पञ्चविधम् / तदेवानुत्पत्तिमि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुक्तं च / Ibid. See Asm. p. 29. 3 Cf. चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिरष्टधा / Ak. I. 41 ab, 4 पञ्च सत्कायदृष्ट्यादिका दृष्टयः, लौकिकी सम्यग्दृष्टिः शैक्षी दृष्टिरशैक्षीदृष्टिरित्यमष्टप्रकारो धर्मधातुर्दृष्टिः / Cf. Abb. I. 41 ab. 5 Cf. पञ्चविज्ञानसहजा धोर्न दृष्टिरतोरणात् // Ak. I. 41 cd. 6 Cf. लौकिकी पुनः सम्यग्दृष्टिमनोविज्ञानसंप्रयुक्ता कुशलसासवा प्रज्ञा / शैक्षस्यानास्रवा दृष्टिः शैक्षी, अशैक्षस्य अशैक्षी। समेघामेघरात्रिंदिवरूपदर्शनवत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् / Abb. I. 41 cd.