________________ अभिधर्मदीपे शेषा भावनापथसंक्षयाः // ये सास्रवाः / ये त्वनास्रवास्तेऽप्रहेया निर्दोषत्वात् // म रूपमस्ति दग्धेयं नाक्लिष्टं नाविकल्पकम् / / पथग्जनत्वमिति चेत् / 2 न। तस्यानिवृताव्याकृतत्वात, समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमात्। पापायिकं च कायवाक्कर्मरूपस्व भावं तदप्यार्यमार्गविरोधित्वाद्विहीनं न तु प्रहीनं(णं) तस्मादुभयं न दर्शण(न)हेयं सत्येष्वविप्रतिपत्तेः / दुःखधर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच्च / पञ्चविज्ञानकाया [अ] विकल्पकास्तेऽपि न दर्शण (न) हेयाः // कति सभागाः कति तत्सभागाः ? [14] सभाग एव धर्माख्यः शेषास्तूमयथा स्मृताः // ' धर्मधातुवा अन्ये धातवो द्विधा / सभागास्तत्सभागाश्च / / कः पुनः सभागार्थः को वा तत्सभागार्थः ? सभागस्तत्समागत्वे स्वक्रियाभाक्तु तुल्यते // 1 cf. दश भावनया हेयाः पञ्च चान्त्यास्त्रयस्त्रिधा। . न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम् // Ak I. 40. 2 मनु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म / आर्यमार्गविरोषित्वान्न तद् दर्शनप्रहातव्यम् / Akb. I. 40a. ननु चान्यदपीति विस्तरः / पृथग्जनत्वमनिवृताव्याकृतसंस्कारस्वभावत्वाद् भावनाहेयमध्यपतम्। अंपायसंवर्तनीयं च कायवाक्कम रूपस्वभावत्वाद् भावनाहेयमुक्तमिति / अतश्चोदयन्ति वात्सीपुत्रीयाः / आर्यमार्गविरोधित्वादिति / पृथग्जनत्वमार्यमार्गोत्पादे न भवति / नियते चापायिके कर्मणि सत्यार्यमार्गों नोत्पद्यते / आर्यमार्गोत्पादे च सत्यापायिक कर्म नोत्पद्यते / तस्मात् सत्कायदृष्टयादिवत्तदुभयं दर्शनहेयमिति वर्णयन्ति / तत्प्रतिषेधार्थमुक्तमप्येतत् / समुच्छिन्न कुशलमूलाः कुशलैर्धर्मेरसमन्वागता इष्टाः / पृथग्जनत्वेन तु समन्वागताः / यस्मात् ते पृथग्जना इष्यन्ते / तस्मान्न कुशलं पृथग्जनत्वम् / क्लिष्टमपि तत्र भवति / वीतरागाणामपि तेन समन्वागमात् / Saks. pp. 77-8.. 3 Cf. सभागस्तत्सभागोऽपि शेषो यो न स्वकर्मकृत् / यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्नं भवत्युत्पत्तिमि वा एवं स विषयः सभाग इत्युच्यते / न च सोऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा / "तस्माद्धर्मधातुनित्यं सभागः। Akb. I. 39 cd.