________________ अभिधर्मदीपे [ 33 ] रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् / ____ आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः // यत्खलु रूप धातौ अनिवृताव्याकृतेनानुभूतं तदारूप्याव्याकृते हित्वा तदन्यैर्दशभिः स्मर्यते // [34] प्रारूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् / कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा // गतमेतदीपोद्घातिकं प्रकरणम् / प्रकृतमेवाभिधीयताम् / / य एतेऽष्टादशधातव एषां कति सालम्बनाः कत्यना लम्बनाः कत्युपाताः कत्यनुपात्ताः कति संचिताः कत्यसंचिताः ? तदिदमारभ्यते। . [35] चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः / सालम्बना इति वर्तते / शेषास्त्वनालम्बना विषयाग्रहणात् / / अमूर्ता ध्वनिना सार्धमनुपात्ताः य एते सप्तचित्तधातवो धर्मधास्वर्धन सहोक्तास्ते शब्देन सहानुपात्ताः / अतोऽन्ये नव द्विधा / ' ये सन्तानाधिरोहिनः (णः) प्रत्युत्पन्नाश्चक्षुरादयस्तदविनि गिणश्च रूपादयः। शेषास्त्वनुपात्ताः / निश्चेतनत्वादनात्मभावपर्यापन्न [त्वा]च्च / शेषा ये बाह्याः कायेन्द्रियसतानव्यतिरेकवतिनस्तेऽनुपात्ता इति सिद्धम् / / कति भूतानि कति भौतिकाः ? तत्राप्युच्यते / [ 36 ] "स्पृश्यं द्विधा अत्र भूतानि चत्वारि भौतिकं च गुरुत्वादिसप्तप्रकारम् / 1 Cf. सप्त सालम्बनाश्चित्तधातवोऽद्धं च धर्मतः / नवानुषात्तास्ते चाष्टौ शब्दश्चान्ये नव द्विधा / . 'सालम्बनं यच्चैतसिकस्वभावम् / उपात्तमिति कोऽर्थः ? यच्चित्तचैत्तैरधिष्ठानभावेनोपगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् / यल्लोके सचेतनमित्युच्यते। Alb. I. 34. See, Dhs. 1185-1186 and Aam. p. 58. 2 श्लक्ष्ण-कर्कश-गुरुत्व-लघुत्व-शीत-बुभुक्षा-पिपासाः।