________________ 31] . प्रथमोऽध्यायः / मनोविज्ञानेनेत्यर्थः। तेन खल्वितरैरपि // मनोविज्ञानेनापि यदनुभूतं तत् षड्भिरपि स्मर्यते / / अथ द्वादशानां चित्तानां कोऽर्थः केनानुभूतः कतिभिः स्मर्यते ? द्वादशचित्तानि' / कामावचराणि कुशलादीनि चत्वारि। रूपावचराणि त्रीन्य (ण्य)'न्यत्राकुशलात् / एवमारूप्यावचराण्येतान्येव त्रीणि / शैक्षमशैक्षं च / स्मृतिरपि तत्संप्रयुक्ता द्वादशविधैव / तत्र किं केनानुभूतं त[द्] द्वादश भिरपि स्मर्यते ? कामावचरकुशलानुभूतं तद् द्वादशविधया स्मरति / एवमकुशलेन / तन्निवृताव्याकृतानुभूतमष्टविधया स्मरति। कामावचर्या सर्वया / रूपारूप्यावचर्ययाऽन्यत्र निवृताव्याकृतानिवृताव्याकृतायाः शैक्षाशैक्षाभ्यां च / एवमनिवृताव्याकृतेन / रूपावचरकुशलानुभूतं सर्वाभिः स्मरति / तन्निवृताव्याकृतानुभूतं दशभिरन्यत्र कामावचरणि (नि)वृताव्याकृतानिवृताव्याकृताभ्याम् / तदनिवृताव्याकृतानुभूतं दशभिरण्य (न्य)"त्रारूप्यावचरणि (नि) वृताव्याकृतानिवृताव्याकृताभ्याम् / आरूप्यावचरः कुशलानुभूतं दशभिरण्य (न्य)त्र कामावचरणि (नि) वृताव्याकृतानिवृताव्याकृताभ्याम् / तन्निवृताव्याकृतानुभूतं नवभिरण्य (न्य)त्र कामावचरं निवृताव्याकृतानिवृताव्याकृताभ्याम् / रूपावचराच्चानिवृताव्याकृतात् / एवमनिवताव्या[I. A, 5. Fol. 34 b.] कृतेन / शैक्षानुभूतमेकादशभिरन्यत्रकामावचरणि (नि)वताव्याकृतादेवमशैक्षेने (णं)ति / संक्षेपार्थस्त्वयं श्लोकैः प्रदर्श्यते। ___ [31] द्वचव्याकृतानुभूतं यच्चित्त द्वादशकादिह / व्यारूप्यरूपणि (नि)वृतेः स्मयतेऽष्टाभिरेव तत् // कामधातौ निवृताव्याकृताऽनिवृताव्याकृताभ्यां यदनुभूतं तदष्टाभिः स्मर्यते। रूपारू प्यावचरे द्वे निवते हित्वा / शेक्षमशैक्षं चैवमनिवृताव्याकृतेन। [32] रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेन (ण) यत् / कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत् // कामावचरणि (नि)वृताव्याकृते हित्वा / .1 See Adv. karika 120 and Saks. p. 134.