________________ अभिधर्मदीपे [28 विज्ञानमस्तीति / / इदमिदानीं वक्तव्यम् / कथमसत्यात्मनि शाश्वते तद्गुणे च संस्कारे स्मतिहेतावसति प्रतिक्षणविनश्वरेषु च विज्ञानेषु च परस्पराकृतसंकेतेषु पूर्वानुभूतोऽर्थः स्मर्यते ? [तद]पदिश्यते / यद्यपि दत्तोत्तर एष वादः,' तथापीदं शास्त्रानुगतमारभ्यते। [27] प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः / प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः॥ प्रणिधानानुभवज्ञानपाटवसातत्यकारित्वाभ्यामसहकारित्वाभ्यामसहकारिकारणसान्निध्ये सन्तत्यानुकलेभ्यः पूर्वविज्ञानानुभूते रूपादौ वस्तुनि स्मृतिरुत्पद्यते / आत्मम नःसंयोगात्संस्कारापेक्षा तदुत्पत्तिरिति चेत् / न। प्रात्ममनःसंयोगः संस्काराणां शशविषाणवदसिद्धत्वान्नित्यस्यास्यात्मनः संस्काराणामनुपपत्तेः। संस्कारसंयोगश्च सकलात्मव्यापित्व (त्वे) प्रदेशवृत्त्यभ्युपगमदोषाच्च / तस्मात् सुष्ठक्तं प्रयोगादङ्गसान्निध्यादिभ्यः स्मतिरुत्पद्यते परमार्थसंवतिविष या // [28] एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतित: / ज्ञातपूर्वेषु विस्मृतिः संप्रजायते // ,. इदमिदानीं विचार्यते / दुःखदर्शण (न) हेयादिना पञ्च प्रकारेण विज्ञानेन यदनुभूतं तत्कतमेन स्मर्यते ? तदिदं प्रस्तूयते / [29] दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा / . स्मर्यते सत्तदन्यैश्च नान्योऽन्यं व्योघदृक्क्षये // सर्वानि (णि) खलु दुःखदर्शणा (ना) दिहेयानि पञ्चप्रकाराणि परम्परानुभूतं स्मरति (न्ति)। अयं त्व[त्र]नियमः--'नान्योऽन्यं व्योघदक्क्षये / ' निरोधमार्गदर्शण (न) प्रहातव्यानुभूतं तु नान्योऽन्यं स्मृतिप्रतिनियतालम्बनत्वात् / शेषास्तु त्रयः प्रकाराः सम्भिन्नालम्बनत्वान्न प्रतिषिध्यन्ते / / [30] विज्ञानानां तु पञ्चानां यदेकेनानुभूयते / तत्स्मर्यतेऽपि चान्येन 9 It appears that this topic was discussed in Adv. in its lost portion (V. supra, p.4, n. 1).