________________ 27.] ... प्रथमोऽध्यायः। एफेनैव समाहितम् / / अनुस्मृतिविकल्पेनैव / एवं यावद्भवाग्रम् // इदमिदानी वक्तव्यम् / कुत्र कस्य षट्प्रकारं विज्ञानं कुशलादिविकल्पक भवति ? तदिदमभिधर्मगह्वरं प्रस्तूयते / [23] उच्छिन्नशुभबीजस्य दशणं (नं) सविकल्पकम् / कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः / / इह तावदुच्छिन्नकुशलमूलस्य पञ्च रूपोन्द्रियाश्रयबलोत्पन्नं दर्शकं विज्ञानं कुशलं न विद्यते, अन्यत्र कुशलमूलप्रतिसन्धानात् / [24] कामेभ्यो वीतरागस्य बालस्याहानिर्मिणः / द्विधाप्यकुशलं नास्ति दर्शकं च मनोविज्ञानं च यद्यपरिहान (ण) धर्मा भवति / . क्लिष्टं चार्यस्य नोत्तमम् // न चार्यस्योर्ध्वभूम्यालम्बनं क्लिष्टं विज्ञानं विकल्पकमस्ति / / किञ्च, [25] नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वमूमिविकल्पकम् / .न चानिवृताव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकमस्ति / क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम् // न च क्लिष्टं विज्ञानमधरभूम्यालम्बनं विकल्पकमस्ति / [26] विधेह द्वयमार्यस्य इह कुशलाकुशलाव्याकृतं दर्शकं च मनोविज्ञानं च विकल्पकमस्ति / रागिणः सशुभस्य च। अवीतरागस्याप्यनुच्छिन्नकुशलमूलस्य पृथग्जनस्य त्रिविधं [I. B, 5. Fol. 34 a.]' द्वयमस्ति / . न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम् //