________________ अभिधर्मदीपे विषयो। योगिणां (नां) कृताकृतकर्मान्तप्रत्यवेक्षणा चित्तरक्षणे स्मृतिः प्रधानी भवति। धर्मस्वसामान्यलक्षणहेतुफलसंबन्धादिषु प्रविचयाख्यः प्रज्ञास्वभावः प्राधान्यमनुभवति / अत्र तु मनोभौमी स्मृतिः पूर्वो द्वितीयो धोणि (नि) रूपिका' / 'मनोभौमी ति वर्तते / पञ्चानां विज्ञानकायानां जातिबधिरपुरुषरूपदर्शनवद्वत्तिः। तत्रापि च स्मृतिः समाहिता चासमाहिता च अनुस्मृतिविकल्पः, आलम्बनाभिलपण (न)तुल्यत्वात् / प्रज्ञा त्वसमाहितैवाऽभिनिरूपणा विकल्पः, समाहितायाः प्रकारविशेषणि (नि) रूपणाभावात्, पूर्वनिरूपितोपलक्षणमात्र. वृत्तित्वाच्च // अथैषां षण्णां विज्ञानकायानां कतरद्विज्ञानं कियद्भिः सविकल्पकम् ? तविदमाविष्क्रिय ते। [21] विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् / स्वभावविकल्पेन / तस्मादन्यत् त्रिभिः मनोविज्ञानं कामेषु त्रिभिः सविकल्पकम् / / ध्याने प्रथमे चासमाहितम् // प्रथमे हि ध्याने यदसमाहितं मनोविज्ञानं तत् त्रिभिरेव / [22] द्वाभ्यामव्यग्रं यत्पुनः समाहितं [त] द्वाभ्यामेवाभिनिरूपणविकल्पमपास्य / एकेन चक्षुःश्रोत्रत्वगाश्रय[म्] / यत्पुनश्चक्षुःश्रोत्रत्वगाश्रयं विज्ञानं प्रथमे ध्याने तदेकेनैव। . द्वाभ्यां तदुपरिव्यग्रं द्वितीयादिषु ध्यानेषु द्वाभ्यां व्यग्रमिति वर्तते / 1 cf. तो प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैब मानसी | As. I. 33 cd. . The topics discussed here under the karikas 21-34 are not found in Akb.