________________ 20.] . प्रथमोऽध्यायः _ अनुशयार्थोऽपि यदि पुष्ट्यर्थस्तेन' माणि (नि)णिालम्बनेषु मिथ्यादृष्टयादिषु पोषोत्कर्षदर्शणा (ना)त्, निर्वाणमार्गयोपि रूपादिवत् सास्रवत्वप्रसङ्ग इति / गतमेतत् / / कति सवितर्का[:]कति सविचारा इति वि[I. A, 4. Fol. 33b]स्तरः / सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा // सालम्बनानां धातूनां ये प्रथमाः पञ्च ते सवितर्काः सविचाराः। 'त्रयस्त्रिधा'। ये त्वन्त्यास्त्रयस्ते त्रेधा / सवितर्काः सविचाराः / विचारमात्राश्चावितर्काः / अविचाराश्च / कामधातौ प्रथमे च ध्याने वितर्को (ने)षु त्रिषु प्रकारेषु प्रविशति / स खल्ववितर्को विचारमात्रश्च // अत्राह-यदि ‘पञ्चविज्ञानकायाः सवितर्काः सविचाराः कथं तहि [अ] विकल्पा इत्युच्यन्ते ? ब्रूमः [20] निर्विकल्पगुणस्वार्थाः गुणः स्वार्थो येषां ते भवन्ति 'गुणस्वार्थाः' / एते हि अस्मारादनिरूपणात् / ' अविकल्पा इत्युच्यन्ते / एतौ हि प्रधानौ विकल्पो' त्रैयध्विकधर्म - 1 'आस्रवास्तेषु यस्मात्समनुशेरते' इति / तस्मात्सास्रवा इति। अनुशेरत इति पुष्टि लभन्त इत्यर्थः / प्रतिष्ठां लभन्त इत्यर्थो वा। पुष्टिलाभे प्रतिष्ठालाभे वा ते रागादयः संतायन्ते / अपरे व्याचक्षते / यथानुशेते ममायमाहार इति पथ्योऽनुगुणीभवतीत्यर्थः, तथा रागादयोऽपि तेषु धर्मेष्वनुशेरतेऽनुगुणीभवन्तीत्यर्थः। रागाद्यभिष्यन्दितकर्मनिर्वतिता हि सासवा धर्माः ।....प्रत्ययानुगुण्येनानुशेरते पुष्टिं लभन्त इत्यनुशयाः / अनुशेरतेऽनुगुणा वर्तन्ते प्रत्यया एष्विति वानुशयाः। अनुशयनं चैषामालम्बनतः संप्रयोगतो वा द्रष्टव्यम् / Sakv. p. 13. 2 Cr. सवितर्कविचारा हि पञ्चविज्ञानधातवः / अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयजिताः // Ak. I. 32. See Dhs. 996-998, Aam.p. 58 and Asm. p. 15. 3 Cf. निरूपणानुस्मरणविकल्पेनाविकल्पकाः Ah. I, 33. ab. 4 त्रिविधः किल विकल्पः-स्वभाव-अभिनिरूपण-अनुस्मरणविकल्पः / तदेषां स्वभाव-... विकल्पोऽस्ति नेतरौ / तस्मादविकल्पका इत्युच्यन्ते / Akb. I. 33 ab. 'त्रिविधः किल विकल्पः' इति / किलशब्दः परमतद्योतनार्थः / स्वाभिप्रायस्तु चेतनाविशेष एव वितर्क इति / न स्वभावविकल्पोऽन्यो धर्मोऽस्तीति / Sahy. p. 64.