________________ प्रथमाध्याये तृतीयपादः। इदमिदानीं वक्तव्यम् / य एतेऽष्टादशधातवः, एषां कति सनिदर्शणाः(नाः) कत्यनिदर्शणाः (ना:) ? कति सप्रतिघा: कत्य' प्रतिधाः ? कति व्याकृताः कत्यव्याकृता इति ? अंत इदं प्रतायते // . [17] सनिदर्शण (न) आद्यार्थः आद्यस्य चक्षुर्धातोर्योों रूपधात्वाख्यः स सनिदर्शणः (नः)। सह निदर्शणे (ने) न निर्दिष्ट इति कृत्वा / निदर्शनं वास्य संबन्धि विद्यत इति सनिदर्शणः (नः) / . मूर्ताः सप्रतिघा दश / ' सप्त चित्तधातून्धर्मधातुं च हित्वा दशान्ये मूर्ता धातवः 'सप्रतिघा दश'। प्रतिघो नाम प्रतिघातः / स च त्रिविधः / आवरणविषयालम्बनप्रतिघातः / तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिप्रतिवन्धः। स तु मूर्ताणा(ना)मेव संस्थानवतां परमाणूनां दिग्देश निर्देश्यानां धर्माणाम् / यथा हस्तो हस्तेन प्रतिहन्यते उपलो वोपले [न] / विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु स्वेषु विषयेषु प्रतिघातः / यस्य यस्मिन् वृत्तिः सन्निपातलक्षणा कारित्राख्या च स तस्मिन् प्रतिहन्यते ततोऽन्यत्रावृत्तेः / आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु प्रतिघातः / / [I. B, 4. Fol. 33a.] 'कः पुनविषयालम्बनयोविशेषः ? यस्मिन्यस्य कारित्रं स तस्य विषयः / यच्चित्तचैत्तैर्गुह्यते तदालम्बनम् / तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वमन्योन्यावरणात् / 1f. सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश / Ak. I. 29 ab. . . Cf. also, Dhs. 1421 and Asm. p. 17. 2 This whole passage is almost identical with Akb. I. 29 ad. The latter quotes a passage from Prajnapti after defining the visaya-pratighata. 3 This whole passage, from कः पुनविषयालम्बनयोविशेषः to इति भवन्तकुमारलातः is almost identical with Akb. I. 29 ab.