________________ अभिधर्मदीपे [18. 'ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि ते' इति ? चतुष्कोटिकः / प्रथमा कोटि:-सप्तचित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः / द्वितीया-पञ्च विषयाः। तृतीया-पञ्चेन्द्रियाणि। चतुर्थी-धर्मधातुप्रदेशः संप्रयुक्तकवर्जः। . 'ये विषयप्रतिघातेन सप्रतिघा आलम्बनप्रतिघातेनापि ते' इति पश्चात्पादकः- ये तावदालम्बनप्रतिघातेन विषयप्रतिघातेनापि ते स्युः। विषयप्रति घातेन, नालम्बनप्रतिघातेन पञ्चेन्द्रियाणि / "यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यते परैः कर्तुम् / तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् // " इति भदन्तकुमारलातः / उक्ताः सप्रतिघाः / / कुशलादयोऽभिधीयन्ते / अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः // त एव दशाव्याकृता रूपशब्द धातुवर्जाः / तौ हि त्रिप्रकारौ कुशलाकुशला. व्याकृतौ // [18] शेषास्त्रिधा १तत्र विषयालम्बनप्रतिघाताभ्यां चित्तचैत्तानामपि सप्रतिघत्वप्रसङ्गाच्चतुष्कोटिकः प्रश्नः | Salo p. 59. 2 पश्चात्पादक इति / यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनायोत्तिष्ठते स पश्चात्पादकः। lbid. See. Dhs. 1089 and Asm. p. 18. 4Cf. रुपिणोऽव्याकृता अष्टौ त एवारूप्यशब्दकाः। Ak I. 29 cd. 4 According to the Pali tradition rupa is avyakyta, i.e., karmically un-moral. There is a controversy about this:-न वत्तब्बं 'रूपं कुसलं पि असलं पीति ?' आमन्ता / Ko. viii. 9. -इदानि रूपं कम्म ति कथा नाम होति / तत्थ येसं कायवचीविज्ञत्तिसंखातं रूपमेव कायकम्मं वचीकम्मं नाम, तञ्च कुसलसमुट्टानं कुसलं, अकुसलसमुद्रानं अकुसलं ति लद्धि, सेय्यथापि महीसासकानञ्चेव सम्मितीयानञ्च / Ko A.viii. 9. Cf. also, Dhs. 431 and Asm. p. 55.