________________ 13 15. ] . प्रथमोऽध्यायः। कः पुण (न) रयमाकाशधातुरन्यः पुण: (नः) पृथणाकाशात् ?' तदुच्यते / - खधातुः पृथगाकाशाद्रूपायतनसंग्रहात् / आकाशं हि धर्मायतनसंगृहीतं नित्यं च / आकाशधातुस्तु चाक्षुषो रूपायतनसंगृहीतः, आलोकतमःस्वभावो वर्णविशेषो वातायनच्छिद्राद्यभिव्यक्तरूपः / तत्पुनः [15] नभः खलु नभो धातोरासन्नो हेतुरेष तु / भूतानां तानि तज्जस्य रूपस्यतत्तु चेतसः // उक्तं हि भगवता-"पृथिव्यप्सु निश्रिता। आपो वायौ / वायुराकाशे / प्राकाशं तु नित्यत्वात्स्वप्रतिष्ठितम्" इति / ' यदि खलु स्वप्रतिष्ठा (ष्ठ)माकाशं कस्मात्तोक्तम्-आकाशमालोके सति प्रज्ञायते / " ब्रमः / नैष दोषः। आधेयेनाधारप्रज्ञापनात् / सर्वस्य खलु संस्कृतस्य मूर्तिक्रियाप्रतिलम्भे गगण (न) माधारः / अथवाऽऽकाशधातुरत्राकाशशब्देनोक्तः। स हि ब्राह्मणः प्रष्टा तस्मिन्नाकाशधातावाकाशसं. ज्ञोत्यत एवोक्तमालोके सति प्रजायते / न चाकाशमालोके सति प्रज्ञायते, 1Cf. छिद्रमाकाराधात्वाख्यमालोकतमसो किल / Ab. I 28 ab. ___'आलोकतमसी किल' इति किलशब्दः परमतद्योतनार्थः / स्वमतं तु सप्रतिधद्रव्याभावमात्रभाकाशमित्यभिप्रायो लक्ष्यते। Sake. p. 57. 2 Cf. रूपपरिच्छेदलक्खणा आकासधातु-"असम्फुट्ठभावच्छिद्दविवरपच्चुपट्टाना वा परिच्छिन्नरूपपदट्ठाना, याय परिच्छिन्नेसु रूपेसु, इदमितो उद्धमधो तिरियं ति च होति / Vm. XIV. 63. See also, Dhs A. IV. 76 and Asm. p. 13. This passage is referred to and criticised in the Brahmasutra-sankara-Bhasya, II. 2, 24. Cf. अयं आनन्द महापठवी उदके पतिट्ठिता, उदकं वाते पतिद्वितं, वातो आकासट्ठो होति / Digha. XVI. 3. 13. ___Cf. also, तदेवं खरपृथिवी पङ्कप्रतिष्ठा, पङ्को घनोदधिवलयप्रतिष्ठः, घनोदधिवलयं धनवातप्रतिष्ठम्, घनवातवलयं अनुवातवलयप्रतिष्ठम्, ततो महातमोभूतमाकाशम् / सर्व चैतत् पृथिव्यादितनुवातवलयान्तमाकाशप्रतिष्ठम् / आकाशं त्वात्मप्रतिष्ठम् / TattvarthaBha sya, III, 1. 4 Cf. सेय्यथापि राहुल, आकासो न कत्थचि पतिद्वितो, एवमेव खो त्वं राहुल आकाससमं भावनं भावेहि / M sutt 62.